शब्दकल्पद्रुमः
वङ्गाली || स्त्री भैरवरागस्य रागिणी । यथा, —
“भैरवी कौशिकी चैव भाषा वेलावली तथा । वङ्गाली चेति रागिण्यो भैरवस्यैव वल्लभाः ॥” इति सङ्गीतदामोदरः ॥ अस्या मूर्त्तिः । “मनोज्ञमुक्तागुणभूषिताङ्गी शुकं दधाना धरणीधरस्था । प्रांशुः कुमारी कमनीयमूर्त्ति- र्व्वङ्गालिकेयं शुचिसाङ्गगीता ॥” इति सङ्गीतरत्नाकरः ॥ “वङ्गाली औडवा ज्ञेया गृहांशन्यासषड्ज- भाक् । ऋधहीना च विज्ञेया मूर्ञ्छना प्रथमा मता । पूर्णा वा मद्वयोपेता कल्लिनाथेन भाषिता ॥” इति सङ्गीतदर्पणम् ॥