वाचस्पत्यम्
वच || कथने अदा० द्विक० पर० अनिट् । वक्ति । “न हि वचिरन्तिपरः प्रयुज्यते” अभियुक्तोक्तेरस्मान्न अन्ति” अवोचत् त । उवाच ऊचतुः वक्ता उक्तः । अमु + उक्तस्य पुनःकथने अनुवादे । निर् + अबवार्थकथने निरुक्तिः निर्वचनम् । प्र + प्रकर्षेण कथने वाख्यानार्थमुक्तस्य कथने प्रवचनम् ।
वाचस्पत्यम्
वच || सन्देशे सक० कथने द्विक० चुरा० उभ० सेट् । वाचयति ते
शब्दकल्पद्रुमः
वच || औ वाचि । सन्देशे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-अनिट् ।)
औ, वक्ता । अयं सेम् (सेट्)
इत्येके । न वचत्यप्रियं वचः । इति हलायुधः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वच || क सन्देशे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
सन्देशो वचनविशेषः । क, वाचयत्यखिलां लिपिमिति हलायुधः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वचः || पुं, (वक्तीति । वच् + अच् ।)
कीरपक्षी । इति मेदिनी । चे, ९ ॥
शब्दकल्पद्रुमः
वच || ल औ वाचि । इति कविकल्पद्रुमः ॥ (अदा०- पर०-द्विक०-सेट् ।)
ल, वक्ति । औ, वक्ता । अस्मादन्तिविभक्तिर्न प्रयोज्या । इत्यालङ्का- रिकाः । इति दुर्गादासः ॥ (यथा, —
“वचेरन्त्यन्तुशन्तृङ्भिः प्रयोगो नाभिधीयते । जयतेर्नास्ति पञ्चम्या उत्तमः पुरुषः क्वचित् ॥” इति बहुसम्मतम् ॥)