शब्दकल्पद्रुमः
वचक्नुः || त्रि (वक्तीति । वच् + “सृयुवचिभ्यः इति ।” उणा० ३ । ८१ । इत्यक्नुच् ।)
वावदूकः । इति मेदिनी । ने, १२७ ।
शब्दकल्पद्रुमः
वचक्नुः || पुं, (वक्तीति । वच् + “सृयुवचिभ्यो- ऽन्युजागूजक्नुचः ।” उणा० ३ । ८१ । इति अक्नुच् ।)
ब्राह्मणः । इति मेदिनी । ने, १२७ ॥