वाचस्पत्यम्
वचनग्राहिन् || त्रि० वचनं गृह्णाति तदनुसारेणाचरति ग्रहणिनि । वचने स्थिते वशीभूते अमरः ।
शब्दकल्पद्रुमः
वचनग्राही || [न्], त्रि, (वचनं गृह्णातीति । ग्रह + णिनिः ।) वचने स्थितः । इत्यमरटीकायां रमानाथः ॥