वाचस्पत्यम्
वचनीय || त्रि० वच—अनीयर् । १ कथनीये २ निन्दनीये लोका- पवादे न० “वचनीयमिदं व्यवस्थितम्” कुमारः ।
शब्दकल्पद्रुमः
वचनीयः || त्रि (वच् + अनीयर् ।)
कथनीयः । इति वचधातोः कर्म्मणि अनीयप्रत्ययेन निष्पन्नः ॥ (निन्दायां, क्ली । यथा, कुमारे । ४ । २१ । “मदनेन विना कृता रतिः क्षणमात्रं किल जीवितेति मे । वचनीयमिदं व्यवस्थितं रमण ! त्वामनुयामि यद्यपि ॥” “इति वचनीयं निन्दा मे मम व्यवस्थितम् ॥” इति तट्टीकायां मल्लिनाथः ॥)