शब्दकल्पद्रुमः
वचनीयता || स्त्री (वचनीयस्य भावः । वचनीय + तल् ।)
लोकापवादः । यथा, —
“जनप्रवादः कौलीनं विगानं वचनीयता ॥” इति हेमचन्द्रः । २ । १८४ ॥ (तथा, मृच्छकटिकनाटके तृतीयाङ्के । “कामं नीचमिदं वदन्ति पुरुषः स्वप्ने च यद्वर्द्धते विश्वस्तेषु च वञ्चनापरिभवश्चौर्य्यं न शौर्य्यं हि तत् । स्वाधीना वचनीयतापि हि वरं बद्धो न सेवाञ्जलि- र्मार्गो ह्येष नरेन्द्रसौप्तिकवधे पूर्ब्बं कृतो द्रौणिना ॥”)