वाचस्पत्यम्
वचनेस्थित || त्रि० वचने वाक्ये तदुपदिष्टाचारे तिष्ठति स्था- क्त अलुक्स० । वाक्यप्रतिपालके वशीभूते अमरः ।
शब्दकल्पद्रुमः
वचनेस्थितः || त्रि (वचने तिष्ठति स्मेति । स्था + “गत्यर्थेति ।” ३ । ४ । ७२ । इति क्तः । “तत्पुरुषे कृति बहुलम् ।” ६ । ३ । १४ । इति सप्तम्या अलुक् ।)
वचने तिष्ठति यः । वचनस्थः । तत्पर्य्यायः । विधेयः २ विनयग्राही ३ आश्रवः । इत्यमरः । ३ । १ । २४ ॥ वश्यः ५ प्रणेयः ६ । इति केचि- दिति भरतः ॥