संस्कृत-शब्दकोशः

वज्र वज्रकङ्कट

वज्रक

शब्दकल्पद्रुमः

वज्रकं || क्ली (वज्र + संज्ञायां कन् ।)
वज्रक्षारम् । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते चिकित्सित- स्थाने ९ अध्याये । तैलं वज्रकमभ्यङ्गार्थे ॥)
सर्व्वतोभद्रचक्रान्तर्गतसूर्य्यभोग्यनक्षत्रात् त्रयो- विंशनक्षत्रात्मक उपग्रहः । यथा, —
“सूर्य्यभात् पञ्चमं धिष्ट्यं ज्ञेयं विद्युन्मुखा- भिधम् । शून्यञ्चाष्टमगं प्रोक्तं सन्निपातं चतुर्द्दशम् ॥ केतुमष्टादशं प्रोक्तमुल्का स्यादेकविंशतिः । द्वाविंशतितमं कम्पं त्रयोबिंशञ्च वज्रकम् । निर्घातञ्च चतुर्व्विंशमुक्ता अष्टावुपग्रहाः ॥” इति ज्योतिस्तत्त्वम् ॥



Correction: