संस्कृत-शब्दकोशः

वज वज्रक

वज्र

वाचस्पत्यम्

वज्र ||‍ पु० सामवेदप्रसिद्धे यज्ञभेदे सि० कौ० ।


वाचस्पत्यम्

वज्र ||‍ पुंन० वज—रन् । १ हीरके २ इन्द्रस्यास्त्रभेदे च । तच्च दधीचिमुन्थस्थितो जातम् भाग० ५ । १० अ० उक्तम् २ ब्रालके ३ धात्याम् न० मेदि० ४ काञ्जिके जटा० ५ वज्रपुष्पे शब्दर० । ६ लौहभेदे ७ अभ्रम्भेदे न० भावप्र० ज्योतिषोक्ते विष्कुम्भादिषु सप्तविंशतौ योगेषु मध्ये पञ्चदशे योनभेदे च न० । ९ कोकिलाक्षवृक्षे १० श्वेतकुशे पु० राजनि० । ११ श्रीकृष्णस्य प्रपौत्रे यदुवंश्ये नृपभेदे च पु० भाग० । १२ सेहुण्डुकवृक्षे भावप्र० । हीरकवज्रलक्षणादि वृ० स० ८० अ० उक्तं यथा “रत्नानि बलाद्दैत्याद्दधीचितोऽन्ये वदन्ति जातानि । केचिद्भुवः स्वभावाद् वैचित्र्यं प्राहुरुपलानाम् । इत्युपक्रमे ।” “वेण्वातटे विशुद्धं शिरीषकुसुमोपमं च कौशणकम् । सौराष्ट्रकमाताम्रं कृष्णं सौर्पारकं वज्रम् । पत्ताम्रं हिमवति मतङ्गज वल्लपुष्पसङ्काशम् । आपीतं च कलिङ्गे श्यामं पौण्ड्रेषु सम्भूतम् । ऐन्द्रं षडश्रि- शुक्लं याम्यं सर्पास्यरूपमसितं च । कदलीकाण्डनिकाशं वैष्णवमिति सर्वसंस्थानम् । वारुणमबलाग्रह्यापमं भवेत् कर्णिकारपुष्पनिभम् । शृङ्गाटकसंस्थानं व्याघ्राक्षिनिभ च हौतभुजम् । व्रायव्यं च यवोपममशोककुसुमप्रभं समुद्दिष्टम । स्रोतः स्वनिः पकीर्णकमित्याकरसम्भव- स्त्रिविधः । रक्तं पीतं च शुभ राजन्यानां सितं द्विजातीनाम् । शैरीषं वैश्यानां शूद्राणां शस्यतेऽसि- निभम् । सितसर्षपाष्टकं तण्डुलो भवेत्तण्डुलैस्तु विंशत्या । द्वे लक्षे मूल्यं द्विद्व्यूनिते चैतत् । पाद- त्र्यंशार्धोनं त्रिभागपञ्चांशषोडशांशाश्च । भागश्च पञ्च- विंशः शतिकः साहस्रिकश्चेति । सर्वद्रव्याभेद्यं लघ्व- म्भसि तरति रश्मिवत् स्रिग्धम् । तडिदनलशक्रचापोपलं च वज्रं हितायोक्तम । काकपदमक्षिकाकेशधातुयुक्तानि शर्कराविद्धम् । द्विग्रणाश्रि दिग्धकलुषत्रस्तविशीर्णानि न शुभानि । यानि च बुद्बुददलिताग्नचिपिटवासी- फलप्रदीर्घाणि । सर्व्रेषां चैतेषां मूल्याद्धागोऽष्टमो हानिः । वज्रं न किञ्चिदपि धारयितव्यमेके पुत्रार्थि- नीभिरबलाभिरुशन्ति तज्ज्ञाः । शृङ्गाटकत्रिपुटधान्यक- वतस्थितं यच्छ्रोणीनिभं च शुभदं तनयार्थिनीनाम् । स्वजनविभवजीवितक्षयं जनयति वज्रमनिष्टलक्षणम् । अशनिविषभयारिनाशनं शुभमुरुभोगकरं च मूभृताम् ।” ह्नीरकोत्पत्त्यादि गारुडे ६८ अ० उक्तं यथा “तस्या(ब्रलस्या)स्थिलेशो निपपात येषु भुवः प्रदेशेषु कथ- ञ्चिदेव । वज्राणि वज्रायुधनिर्जिगीषोर्भवन्ति नाना- कृतिमन्ति तेषु । हैसमातङ्गसौराष्ट्राः पौण्ड्रकालिङ्ग- लोषलाः । वेण्वातटाः मसोवीरा वज्रस्याष्टाविहाकराः । आतामा हिमशैलजाश्च शशिभा वेण्वातटीयाः स्मृताः सौवीरे तुषिताब्जमेघसदृशास्ताम्राश्च सौराष्ट्रजाः । कालिङ्गाः कनकावदातरुचिराः पीतप्रभाः कोषले श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्तपीतप्रभाः । अत्यर्थं लघुवर्णतश्च गुणवत् पार्श्वेषु सम्यक् समं रेखा- विन्दुकलङ्ककाकपदकत्रासादिभिर्वर्जितम् । लोकेऽस्मिन् परमाणुमात्रमपि यत् वज्रं क्वचिद्दृश्यते तस्मिन् देव! समाश्रयो ह्यवितथस्तीक्ष्णाग्रधारं वदि । वज्रेषु वर्णयुक्त्या देवानामपि परिग्रहः प्रोक्तः । वर्णेभ्यश्च विभागः कार्य्यो वर्णाश्रयादेव! । हरित पीतपिङ्गश्यामाताम्राः स्वभावतो रुचिराः । हरि- वरुणशक्रहुतवहपितृपतिमरुतां स्वकावर्णाः । विप्रस्य शङ्खकुमुदस्फटिकावदातः स्यात् क्षत्त्रियस्य शशबभ्रु विलोचनाभः । वैश्यस्य कान्तकदलीदलसन्निकाशः शू- द्रस्य धौतकरवालसमानदीप्तिः । द्वौ बज्रवर्णौ पृथिवी- पतीनां सद्भिः प्रतिष्ठौ न तु सार्वजन्यौ । यः स्याज्जवा विद्रुमभङ्गशोणो यो वा हरिद्रारससन्निकाशः । ईश- त्वात् सर्ववर्णानां गुणवत् सार्वचर्णिकम् । कामतो धारयेद्राजा नत्वन्योऽन्थत् कथञ्चन । अधरोत्तरवृत्त्या हि यादृक् स्याद्वणसङ्करः । ततः कष्टतरो वज्रो वर्णानां सङ्करो मतः । न च मार्गविभागमात्रवृत्त्या विदुषा वज्रपरिग्रहो विधेयः । गुणवद्गुणसम्पदां विभूति- र्विपरोतो व्यसनोदयस्य हेतुः । एकमपि यस्य शृङ्गं विदलितमवलोक्यते विशीर्णं वा । गुणवदपि तन्न- धार्य्यं वज्रं श्रेयोऽर्थिभिर्भवने । स्फुटिताग्निविशीर्ण- शृङ्कदेसं मलवर्णैः पृषतैरुपेतमध्यम् । न हि वज्रभृतोऽपि वज्रमाशु श्रियमन्याश्रयलालसां न कुर्य्यात् । थस्यैकदेशः क्षतजावभासो यद्वा भवेलोहितवर्णचित्रम् । न तन्न कुर्य्याद्ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जोवितान्तम् । कोट्यः पार्श्वानि धाराश्च षडष्टौ द्वादशेति च । उत्तुङ्ग- समतीक्ष्णाग्रा वज्रस्याकरजा गुणाः । षट्कोटिशुद्ध- ममलं स्फुटतीक्ष्णधारं वर्णान्वितं लघु सुपार्श्वमपेत दोषम् । इन्द्रायुधांशुविसृतिच्छुरितान्तरीक्षमेवंविधं भुवि भवेत् सुलभं न वज्रम् । तीक्ष्णाग्रं विमलमपैति सर्वदोषं धत्ते यः प्रयततनुः सदैव वज्रम् । वृद्धिस्तं प्रतिदिनमेति यावदायुः श्रीसम्पत्सुतधनधान्यगो, पशूनाम् । व्यालवह्निविषव्याघ्रतस्कराम्बुभयानि च । दू- रात्तस्य निवर्त्तन्ते कर्माण्याथर्वणानि च । यदि वज्रमपेत सर्वदोषं विभृयात्तण्डुलविंशतिं गुरुत्वे । मणिशास्त्र- विदो वदन्ति तस्य द्विगुणं रूपकलक्षमग्र्यमूल्यम् । त्रिमागहीनार्द्धतदर्द्धशेषं त्रयोदशं त्रिंशदतोर्द्धभागाः । अशीतिभागोऽथ शतांशभागः सहस्रभागोल्पसमान- योगः । यत्तण्डुलैर्द्वादशभिः कृतस्य वज्रस्य मूल्यं प्रथमं प्रदिष्टम् । द्वाभ्यां क्रमाद्धानिमुपागतस्य त्वेकावसानस्य विनिश्चयोऽयम् । न चापि तण्डुलैरेव वज्राणां धारण- क्रमः । अष्टाभिः सर्षपैर्गौरेस्तण्डुलं परिकल्पयेत् । वत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि । रत्नवर्ग- समस्तेऽपि तस्य धारणमिष्यते । अनेनापि हि दोषेण लक्ष्यालक्ष्येण दूषितम् । स्वमूल्यात् दशमं भागं वज्रं लभति मानवः । प्रकटानेकदोषस्य स्वल्पस्य मह- तोऽपि वा । स्वमूल्याच्छतशोभागो वज्रस्य न विधी- यते । स्पृष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते । रत्नानां प्ररिकर्मार्थं मूल्यं तस्य भवेल्लघु । प्रथमं गुणसम्पदा- भ्युपेतं प्रतिबद्धं समुपैति तच्च दोषम् । अलमाभरणेन तस्य राज्ञो गुणहीनोऽपि मणिर्नभूषणाय । नार्य्या वज्रमधार्य्यं गुणवदपि सुतप्रसूतिमिच्छन्त्या । अन्यत्र दीर्घचिपिटह्रस्वाद्गुणैर्विमुक्ताच्च । अयसा पुष्परागेण तथा गोमेदकेन च । वैदूर्य्यस्फटिकाम्याञ्च काचैश्चापि पृथग्विधैः । प्रतिरूपाणि कुर्वन्ति वज्रस्य कुशलाजनाः । परीक्षा तेषु कर्त्तव्या विद्वद्भिः सुपरीक्षकैः । सुक्षारो- ल्लेखशालाभिस्तेषां कार्य्यं परीक्षणम् । पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः । सर्वाणि विलि- स्वेद्वज्रं तच्च तैर्न विलिख्यते । गुरुता सर्वरत्नानां गौरवाधारकारणम् । वज्रे तान्वैप्ररीत्येन सूरयः परि- चक्षते । जातिभिरजातिं विलिखन्ति वज्रकुरुविन्दाः । वज्रैर्वज्रं विलिखति नान्येन लिख्यते वज्रम् । वज्राणि मुक्तामणयो याश्च काश्चन जातयः । न तेषां प्रतिबद्धानां भा भवत्युर्द्ध्वगामिनी । तिर्य्यक्क्षतत्वात् केषाञ्चित् कथञ्चिद्यदि दृश्यते । तिर्य्यमालिख्यमानानां सा पार्श्वे- ष्वपि हन्यते । यद्यपि विशीर्णकोटिः सविन्दुरेखान्वितो विवर्णो वा । तदपि धनधान्यपुत्रान् करोति सेन्द्रा- युधो वज्रः । सौदामिनीविस्फुरिताभिराम राजा यथोक्तं कुलिशं दधानः । पराक्रमाक्रान्तपरप्रतापः समस्तसामन्तभुवं भुनक्ति” । ३ विद्युदग्नौ तन्निबारण- हेतुर्यथा “प्रचण्डपवनाघाते मेघेषु स्तनितेषु यः । त्रिःपठेज्जैमिनीयोऽखि प्राङ्मुखो वाप्युदङ्मुखः । तस्य मा भूद्भयं घोरं विद्युतीयोऽवसीदति आ० त० धृतब्रह्म- पुराणम् । “मुनेः कल्याणमित्रस्य जैमिनेश्चापिकीर्त्तनात् । विद्युदग्निभयं नास्ति पठिते च गृहोदरे” । “लिखिते च गृहोदरे” इति वा पाठः । जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च । पुलस्त्यः पुलहश्चैव पञ्चै ते वज्र- वारकाः” पुराणम् । तत्पर्य्यायादि भावप्र० उक्तं यथा ||‍“हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः । स तु श्वेतः स्मृतो विप्रो लोहितः क्षत्त्रियः स्मृतः । पीतो वैश्योऽसितः शूद्रश्चतुर्वर्णात्मकश्च सः । रसायने मतो विप्रः सर्वसिद्धिप्रदायकः । क्षत्त्रियो व्याधिवि- ध्वंसी जरामृत्युहरः स्मृतः । वैश्यो धनप्रदः प्रोक्त स्तथा देहस्य दार्ढ्यकृत् । शूद्रो नाशयति व्याधीन् वयः स्तम्भं करोति च । पुंस्त्रीनपुंसकानीह लक्षणीयानि लक्षणैः । सुवृत्ताः फलसंपूर्णास्तेजोयुक्ता वृहत्तराः । पुरुषास्ते समाख्याता रेखाविन्दुविवर्जिताः । रेखाविन्दु समायुक्ताः षडश्रास्ते स्त्रियः स्मृताः ।” षडश्राः षट्कोणाः । “त्रिकोणाश्च सुदीर्घास्ते विज्ञेयाश्च नपुं- सकाः । तेषु स्युः पुरुषाः श्रेष्ठा रसबन्धनकारिणः । स्त्रियः कृर्वन्ति कायस्य कान्तिं स्त्रीणां सुखप्रदाः । नपुंसकास्त्ववीर्य्या स्युरकामाः सत्त्ववर्जिताः । स्त्रियः स्त्रीभ्यः प्रदातव्याः क्लीवं क्लीवे प्रयोजयेत् । सर्वभ्यः सर्वदा देयाः पुरुषाः वीर्य्यवर्द्धनाः । अशुद्धं कुरुते वज्रं कुष्ठं पार्श्वव्यथान्तथा । पाण्डुताम्पङ्गुरत्वञ्च तस्मात् संशोध्य मारयेत् ।” तच्छोधनविधिर्यथा “कुलत्थकोद्रवक्काथे दोलायन्त्रे विपाचयेत् । व्याघ्री- कन्दगतं वज्रं त्रिदिनं तद्विशुद्ध्यति” । व्याघ्री कण्ट- कारिका । अन्यः शोधनविधिः । “गृहीत्वाग्निं शुभे वज्रं व्याघ्रीकन्दोदरे क्षिपेत् । माहिषीविष्ठया लिप्ता कारीषाग्नौ विपाचयेत् । त्रियामायां चतुर्यामं यामि- त्यन्तेऽश्वमूत्रके । सेचयेत्पाचयेदेवं सप्तरात्रेण शुद्ध्यति ।” अथ बज्रस्य मारणविधिः “हिङ्गुसैन्धवसंयुक्ते क्षिपेत्- काथे कुलत्थजे । तप्तं तप्तं पुनर्वज्रम्भवेद्भस्म त्रिसप्तधा” । अन्योऽस्य मारणप्रकारः “मेषशृङ्गभुजङ्गास्थिकूर्मपृष्ठा- म्लवेतसम् । शशदन्तं समम्पिष्ट्वा वज्रीक्षीरेण भेलकम् । कृत्वा तन्मध्यगं वज्रं म्रियते ध्मातमेवहि ।” मारितस्य वज्रस्य गुणाः “आयुःपुष्टिं बलं वीर्य्यं वर्णं सौख्यं करोति व । सेवितं सर्वरोगध्नं मृतं वज्रं न संशयः ।” अभ्रभेदा तद्गुणाश्च भावप्र० उक्ता यथा ||‍“पुरा बधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम् । विस्फु- लिङ्गास्ततस्तस्य गगने परिसर्पिताः । ते निपेतुर्घन- ध्वानाच्छिखरेषु महीभृताम् । तेभ्य एव समापन्नं तत्तद्गिरिषु च भ्रकम् । तद्वज्रं वज्रजातत्वादभ्रमम्रर- घोद्भवात् । गगनात् स्खलितं यस्माद्गगनञ्च ततो मतम् । विप्रक्षत्त्रियविट्शूद्रभेदात्तत् स्याच्चतुर्विधम् । क्रमे- णैषां सितं रक्तं पीतं कृष्णञ्च वर्णतः । प्रशस्यते सितन्तारं रक्तं तत्तु रसायने । पीतं हेमनि, कृष्णन्तु गदेषु द्रुतयेऽपि च । पिनाकं दर्दुरं नागं वज्रञ्चेति चतुर्विधम् । मुञ्चत्यग्नौ विनिःक्षिप्तं पिनाकन्दलसञ्च- यात् । अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम् । दर्दुरं त्वग्निनिःक्षिप्तं कुरुते दर्दुरध्वनिम् । गोलकान् बहुशः कृत्वा स स्यान्मृत्युप्रदायकः । नागन्तु नागवद्वह्नौ फुत्कारं परिमुञ्चति । तद्भक्षितमवश्यन्तु विदधाति भगन्दरम् । वज्रन्तु वज्रवत्तिष्ठेत्तन्नाग्नौ विकृतिं व्रजेत् । सर्वाभ्रेषु वरं वज्रं व्याविबार्द्धक्यमृत्युहृत् । अभ्र- मुत्तरशैलोत्थं बहुसत्त्वं गुणाधिकम् । दक्षिणाद्रिभवं स्वल्पसत्त्वमल्पगुणप्रदम् । अभ्र कषायं मधुरं सुशीत- मायुष्करं धातुविवर्द्धनञ्च । हन्यात् त्रिदोषं व्रणमेह कुष्ठप्लीहोदरग्रन्थिविषक्रमींश्च । रोगान् हन्ति द्रढ- यति वपुर्वीर्य्यवृद्धिं विधत्ते तारुण्याढ्यं रमयति शतं योषितां नित्यमेव । दीर्घायुष्कान् जनयति सुतान् विक्रमैः सिंहतुल्यान् मृत्योर्मीतिं हरति सततं सेव्यमानं मृताभ्रम् ।


शब्दकल्पद्रुमः

वज्रं || क्ली (वज गतौ + ऋज्रेन्द्रेति रन् ।)
बालकः । धात्री । इति मेदिनी । रे, ६ ॥ काञ्जिकम् । इति धरणिः ॥ वज्रपुष्पम् । इति शब्दरत्नावली ॥ लौहविशेषः । स च बहुविधो यथा । नीलपिण्डम् १ अरुणाभम् २ मोरकम् ३ नागकेशरम् ४ तिन्तिराङ्गम् ५ स्वर्णवज्रम् ६ शैवालवज्रम् ७ शोणवज्रम् ८ रोहिणी ९ काङ्कोलम् १० ग्रन्थिवज्रकम् ११ मदनाख्यम् १२ इत्यादि । तेषां नामानुरूपं चिह्रम् । इति पुराणम् ॥ अभ्रविशेषः । तस्योत्पत्त्यादि यथा, —
“पुरा वधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम् । विस्फूलिङ्गास्ततस्तस्य गगने परिसर्पिताः ॥ ते निपेतुर्घनध्वानाच्छिखरेषु महीभृताम् । त्रेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम् ॥ तद्वज्रं वज्रजातत्वादभ्रमभ्ररवोद्भवात् । गगनात् स्खलितं यस्मात् गगनञ्च ततो मतम् ॥ पिनाकं दर्दुरं नागं वज्रञ्चेति चतुर्विधम् । वज्रन्तु वज्रवत् तिष्ठेत् तन्नाग्नौ विकृतिं व्रजेत् ॥ सर्व्वाभ्रेषु वरं वज्रं व्याधिवार्द्धक्यमृत्युहृत् ॥” इति भावप्रकाशः ॥


शब्दकल्पद्रुमः

वज्रः || पुं, (वज् + रन् ।)
कोकिलाक्षवृक्षः । श्वेतकुशः । इति राजनिर्घण्टः ॥ सेहुण्ड- वृक्षः । इति भावप्रकाशः ॥ श्रीकृष्णप्रपौत्त्रः । यथा, —
“अनिरुद्धात् सुभद्रायां वज्रो नाम नृपोऽभवत् । प्रतिबाहुर्वज्रसुतश्चारुस्तस्य सुतोऽभवत् ॥” इति गारुडे १४४ अध्यायः ॥ अपि च । “प्रद्युम्न आसीत् प्रथमः पितृवद्रुक्मिणीसुतः । स रुक्मिणो दुहितरमुपयेमे महारथः ॥ तस्यां ततोऽनिरुद्धोऽभून्नागायुतबलान्वितः । स चापि रुक्मिणः पौत्त्रीं दौहित्रो जगृहे ततः ॥ वज्रस्तस्यामभूद्यस्तु मौषलादवशेषितः । प्रतिबाहुरभूत्तस्मात् सुबाहुस्तस्य चात्मजः ॥” इति श्रीभागवते १० स्कन्धे ९० अध्यायः ॥ * ॥
(विश्वामित्रपुत्त्रभेदः । यथा, महाभारते । १३ । ४ । ५१; ५९ । “वल्गुजङ्घश्च भगवान् गालवश्च महानृषिः । रुचिर्वज्रस्तथाख्यातः सालङ्कायन एव च ॥” “विश्वामित्रात्मजाः सर्व्वे मुनयो ब्रह्मवादिनः ॥”)
विष्कम्भादिसप्तविंशतियोगान्तर्गतपञ्चदशयोगः । तस्याद्यनवदण्डा वर्ज्जनीया यथा, —
“त्यजादौ पञ्च विष्कम्भे सप्त शूले च नाडिकाः । गण्ड व्याघातयोः षट् च नव हर्षणवज्रयोः ॥ वैधृतिव्यतिपातौ च सभस्तौ परिवर्ज्जयेत् । शेषा यथार्थनामानो योगाः कार्य्येषु शोभनाः ॥” इति ज्योतिस्तत्त्वम् ॥ अत्र जातफलं यथा, —
“गुणी गुणज्ञो बलवान् महौजाः सद्रत्नवस्त्रादिपरीक्षकः स्यात् । वज्राभिधाने यदि चेत् प्रसूतो वज्रोपमः स्याद्रिपुकामिनीनाम् ॥” इवि कोष्ठीप्रदीपः ॥


शब्दकल्पद्रुमः

वज्रं || पुं, क्ली, (वजतीति । वज गतौ + “ऋज्रे- न्द्राग्रवज्रविप्रेति ।” उणा० २ । २८ । इति रन्- प्रत्ययेन निपातितः ।)
इन्द्रस्यास्त्रविशेषः । वाज् इति भाषा ॥ तत्पर्य्यायः । ह्रादिनी २ कुलिशम् ३ भिदुरम् ४ पविः ५ शतकोटिः ६ स्वरुः ७ शम्वः ८ दम्भोलिः ९ अशनिः १० । इत्यमरः । १ । १ । ५० ॥ कुलीशम् ११ भिदिरम् १२ भिदुः १३ स्वरुस् १४ सम्बः १५ संवः १६ अशनी १७ वज्राशनिः १८ । इति तट्टीका ॥ जम्भारिः १९ त्रिदशायुधम् २० शतधारम् २१ शतारम् २२ आपोत्रम् २३ अक्षजम् २४ । इति पुरुषो- त्तमः ॥ गिरिकण्टकः २५ गौः २६ अभ्रोत्थम् २७ मेघभूतिः २८ गिरिज्वरः २९ । इति शब्दरत्नावली ॥ जाम्बविः ३० दम्भः ३१ । इति जटाधरः ॥ भिद्रः ३२ अम्बुजम् ३३ । इति त्रिकाण्डशेषः ॥ (यथा, ऋग्वेदे । १ । ३२ । २ । “अहन्नहिं पर्व्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्य्यं ततक्ष ॥”)
अस्योत्पत्तिर्यथा, —
“तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम् । पृथक् चकार तत्तेजश्चक्रं विष्णोरकल्पयत् ॥ त्रिशूलञ्चापि रुद्रस्य वज्रमिन्द्रस्य चाधिकम् । दैत्यदानवसंहर्त्तुः सहस्रकिरणात्मकम् ॥ रूपञ्च प्रतिमञ्चक्रे त्वष्टा पादादृते महत् । न शशाकाथ तद्द्रष्टुं पादरूपं रवेः पुनः ॥ अर्च्चास्वपि ततः पादौ न कश्चित् कारयेत् क्वचित् । यः करोति स पापिष्ठां गतिमाप्नोति निन्दि- ताम् ॥ कुष्ठरोगमवाप्नोति लोकेस्मिन् दुःखसंयुतम् । तस्मान्न धर्म्मकामार्थी चित्रेय्वायतनेषु च । न क्वचित् कारयेत् पादौ देवदेवस्य धीमतः ॥” इति मात्स्ये ११ अध्यायः ॥ * ॥
अपि च । “प्रविश्य जठरं शुद्धो दैत्यमातुः पुरन्दरः । ददर्शोर्द्ध्वमुखं बालं कटिन्यस्तकरं महत् ॥ तस्यैवान्तेऽथ ददृशे पेशीं मांसस्य वासवः । शुद्धस्फटिकसंकाशां कराभ्यां जगृहेऽथ ताम् ॥ ततः कोपसमाध्मातो मांसपेशीं शतक्रतुः । कराभ्यामर्दयामास ततः सा कठिनाभवत् ॥ ऊर्द्ध्वेनार्द्धञ्च ववृधे त्वधोऽर्द्धं ववृधे तथा । शतपर्व्वा च कुलिशः संजातो मांसपेशितः ॥” इति वामने ६८ अध्यायः ॥ * ॥
वृत्रासुरवधार्थं दधीचिमुनेरस्थ्ना इन्द्राज्ञया विश्वकर्म्मणा निर्मितवज्रस्य प्रमाणं यथा, —
“एवं कृतव्यवसितो दध्यङ्ङाथर्व्वणस्तनुम् । परे भगवति ब्रह्मण्यात्मानं सन्नयन् जहौ ॥ यताक्षासु मनो बुद्धिस्तत्त्वदृक ध्वस्तबन्धनः । आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ अथेन्द्रो वज्रमुद्यम्य निर्म्मितं विश्वकर्म्मणा । मुनेः सकथिभिरुत्सिक्तो भगवत्तेजसान्वितः ॥ वृतो देवगणैः सर्व्वैर्गजेन्द्रो पर्य्यशोभत । स्तयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव ॥” इति श्रीभागवते ६ स्कन्धे १० अध्यायः ॥ * ॥
तन्निर्घोषवारकविधिर्यथा, —
“पचण्डपवनाघाते मेधेषु स्तनितेषु यः । त्रिः पठेज्जैमिनीयोऽस्मि प्राङ्मुखो वाप्युदङ्- मुखः ॥ तस्य माभूद्भयं घोरं विद्युतीयोऽवसीदति ॥” इत्याह्रिकतत्त्वधृतब्रह्मपुराणम् ॥ “मुनेः कल्याणमित्रस्य जैमिनेश्चापि कीर्त्तनात् । विद्युदग्निभयं नास्ति पठिते च गृहोदरे ॥” लिखिते च गृहोदरे । इति वा पाठः । “जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च । पुलस्त्यः पुलहश्चैव पञ्चैते वज्रवारकाः ॥” इति पुराणम् ॥ * ॥
* ॥
रत्नविशेषः । हीरा इति भाषा । तत्पर्य्यायः । इन्द्रायुधम् २ हीरम् ३ भिदुरम् ४ कुलिशम् ५ पविः ६ अभेद्यम् ७ अशिरम् ८ रत्नम् ९ दृढम् १० भार्गवकम् ११ षट्कोणम् १२ बहुधारम् १३ शतकोटिः १४ । अस्य गुणाः । षड्रसो- पेतत्वम् । सर्व्वरोगापहारकत्वम् । सर्व्वाघशम- नत्वम् । सौख्यत्वम् । देहदार्ढ्यकरत्वम् । रसा- यनत्वञ्च । तद्विशेषो यथा, —
“स्वच्छं विद्युत्प्रभं स्निग्धं सौन्दर्य्यं लघु लेखनम् । षडारन्तीक्ष्णधारञ्च सुशाम्यारं श्रियं दिशेत् ॥” तस्य कुलक्षणं यथा, —
“भस्माभं काकपादञ्च रेखाक्रान्तन्तु वर्त्तुलम् । आधारमलिनं बिन्दु संत्रासे स्फुटितन्तथा । नीलाभं चिपिटं रूक्षं तद्वज्रं दोषलं त्यजेत् ॥” वज्रस्य चतुर्व्वर्णलक्षणं यथा, —
“श्वेतालोहितपीतमेचकतया छायाश्चतस्रः क्रमाद्- विप्रादित्वमिहास्य यत् सुमनसः शंसन्ति सत्यं ततः । स्फीतां कीर्त्तिमनुत्तमां श्रियमिदं दत्ते यथा संधृतं मर्त्यानामयथायथं तु कुलिशं पथ्यं हितं जात्यतः ॥” * ॥
तस्य परीक्षा यथा, —
“यत् पाषाणतले निकाशनिकरे नोद्घृष्यते निष्ठुरे यच्चान्योपललोहमुद्गरमुखैर्लेखान्न यात्याहनम् । यच्चान्यं निजलीलयैव दलयेद्वज्रेण वा भिद्यते तज्जातं कुलिशं वदन्ति कुशलाः श्लाध्यं महा- र्घञ्च तत् ॥” * ॥
तस्य वर्णगुणौ यथा, —
“विप्रः सोऽपि रसायनेषु बलवानष्टाङ्गसिद्धिप्रदो राजन्यस्तु नृणां बलीपलितजिन्मृत्युं जयेद- ञ्जसा । द्रव्याकर्षणसिद्धिदस्तु सुतरां वैश्योऽथ शूद्रो भवेत् सर्व्वव्याधिहरस्तदेष कथितो वज्रस्य वर्णो गुणः ॥” इति राजनिर्घण्टः ॥ * ॥
अपि च । अथ वज्रस्य नामलक्षणगुणाः । “हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः । स तु श्वेतः स्मृतो विप्रो लोहितः क्षत्त्रियो मतः । पीतो वैश्योऽसितः शूद्रश्चतुर्व्वर्णात्मकश्च सः ॥ रसायने मतो विप्रः सर्व्वसिद्धिप्रदायकः । क्षत्त्रियो व्याधिविध्वंसी जरामृत्युहरः परः ॥ वैश्यो धनप्रदः प्रोक्तस्तथा देहस्य दार्ढ्यकृत् । शूद्रो नाशयति व्याधीन् वयस्तम्भं करोति च । पुंस्त्रीनपुंसकाश्चैते लक्षणीयानि लक्षणैः ॥ सुवृत्ताः फलसंपूर्णास्तेजोयुक्ता बृहत्तराः । पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥ रेखाबिन्दुसमायुक्ताः षडसास्ते स्त्रियः स्मृताः ॥” षडस्राः षट्कोणाः । “त्रिकोणाश्च सुदीर्घाश्च ते विज्ञेया नपुंसकाः ॥ तेऽपि स्युः पुरुषाः श्रेष्ठा रसबन्धनकारिणः । स्त्रियः कुर्व्वन्ति कायस्य कान्तिं स्त्रीणां सुख- प्रदाः ॥ नपुंसकास्त्ववीर्य्याः स्युरकामाः सत्त्ववर्ज्जिताः । स्त्रियः स्त्रीभ्यः प्रदातव्याः क्लीवं क्लीवे प्रयो- जयेत् । सर्व्वेभ्यः सर्व्वदा देयाः पुरुषा वीर्य्यवर्द्धनाः ॥ अशुर्द्ध कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा । पाण्डुतां पङ्गुरत्वञ्च तस्मात् संशोध्य मारयेत् ॥” मारितस्य वज्रस्य गुणाः । “आयुः पुष्टिं बलं वीर्य्यं वर्णं सौख्यं करोति च । सेवितं सर्व्वरोगघ्नं मृतं वज्रं न संशयः ॥” इति भावप्रकाशः ॥ (अथ वज्रमारणम् । “त्रिवर्षारूढकार्पासमूलमादाय पेषयेत् । त्रिवर्षनागवल्ल्यास्तु निजद्रावैः प्रपेषयेत् ॥ तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् । एवं सप्तपुटेनैव म्रियते कुलिशं ध्रुवम् ॥” मतान्तरम् । “कांस्यपात्रे तु भेकस्य मूत्रे वज्रन्तु निःक्षिपेत् । त्रिःसप्तकृत्वः सन्तप्तं वज्रमेवं मृतं भवेत् ॥” अथान्यः । “त्रिःसप्तकृत्वः सन्तप्तं खरमूत्रेण सेचयेत् । मुद्गरैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ॥ प्रध्मातं वाजिमूत्रेण सिक्तं पूर्ब्बक्रमेण तु । भस्मी भवति तद्वज्रं वज्रवत् कुरुते तनुम् ॥ आयुष्यं सौख्यजननं बलरूपप्रदन्तथा । रोगप्नं मृत्युहरणं वज्रभस्म भवत्यलम् ॥” इति वज्रमारणम् । इति वेद्यकरसेन्द्रसारसंपहे जारणमारणाधिकारे ॥ * ॥
)
अन्यच्च । अथ वज्रगणना । विष्णुधर्म्मोत्तरे । “वज्रं मरकतञ्चैव पद्मरागञ्च मौक्तिकम् । इन्द्रनीलं महानीलं वैदूर्य्यं गन्धसंज्ञकम् ॥ चन्द्रकान्तं सूर्य्यकान्तं स्फाटिकं बलकं तथा । कर्केतरं पुष्परागं तथा ज्योतीरसं द्बिज ॥ स्फाटिकं राजवर्त्तञ्च तथा राजमतं शुभम् । सौगन्धिकं तथा गञ्जं शङ्खब्रह्ममयं तथा ॥ गोमेदं रुधिराख्यञ्च तथा भल्लातकं द्विज । धूलीमरकतञ्चैव तुत्थकं सीसमेव च ॥ पीलुं प्रवालकञ्चैव गिरिवज्रञ्च भार्गव । भुजङ्गमामणिश्चैव तथा वज्रमणिः शुभः ॥ तित्तितञ्च तथा पीत्तं भ्रामरञ्च तथीत्पलम् । वज्राण्येतानि सर्व्वाणि धार्य्याण्येव महीभृता ॥ सुवर्णप्रतिबद्धानि जयारोग्यसमृद्धये ॥” इति युक्तिकल्पतरुः ॥ तस्योत्पत्तिपरीक्षामूल्यादि यथा, —
“वच्मि परीक्षां रत्नानां बलो नामासुरोऽभ- वत् । इन्द्राद्या निर्ज्जितास्तेन निर्ज्जेतुं तैर्न शक्यते ॥” इत्यपक्रम्य । “महाप्रभावं विबुधैर्यस्माद्बज्रमुदाहृतम् । वज्रपूर्ब्बा परीक्षेयं ततोऽस्माभिः प्रकीर्त्त्यते ॥ तस्यास्थिलेशो निपपात येषु भुवः प्रदेशेषु कथञ्चिदेव । वज्राणि वज्रायुधनिर्ज्जिगीषो- र्भवन्ति नानाकृतिमन्ति तेषु ॥ हैममातङ्गसौराष्ट्राः पौण्ड्रकालिङ्गकोषलाः । वेण्वातटाः ससौवीरा वज्रस्याष्टाविहाकराः ॥ आताम्रा हिमशैलजाश्च शशिभा वेण्वा- तटीयाः स्मृताः सौवीरे तुषिताब्जमेघसदृशास्ताम्राश्च सौरा- ष्ट्रजाः । कालिङ्गाः कनकावदातरुचिराः पीतप्रभाः कोषले श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्तपीत- प्रभाः ॥ अत्यर्थं लघु वर्णतश्च गुणवत् पार्श्वेषु सम्यक् समं रेखाबिन्दुकलङ्ककाकपदकत्रासादिभिर्व्वर्जितम् । लोकेऽस्मिन् परमाणुमात्रमपि यत् वज्रं क्वचिद् दृश्यते तस्मिन् देवसमाश्रयो ह्यवितथस्तीक्ष्णाग्रधारं यदि ॥ वज्रेषु वर्णयुक्त्या देवानामपि परिग्रहः प्रोक्तः । वर्णेभ्यश्च विभागः कार्य्यो वर्णाश्रयादेव ॥ हरितसितपीतपिङ्गश्यामाताम्राः स्वभावतो रुचिराः । हरिवरुणशक्रहुतवहपितृपतिमरुतां स्वका वर्णाः ॥ विप्रस्य शङ्खकुमुदस्फटिकावदातः स्यात् क्षत्त्रियस्य शशवभ्रुविलोचनाभः । वैश्यस्य कान्तकदलीदलसन्निकाशः शूद्रस्य धौतकरवालसमानदीप्तिः ॥ द्वौ वज्रवर्णौ पृथिवीपतीनां सद्भिः प्रतिष्ठौ न तु सार्व्वजन्यौ । यः स्याज्जवाविद्रुमभङ्गशोणो यो वा हरिद्रारससन्निकाशः ॥ ईशत्वात् सर्व्ववर्णानां गुणवत् सार्व्ववर्णिकम् । कामतो धारयेद्राजा न त्वन्योऽन्यत् कथञ्चन ॥ अघरोत्तरवृत्त्या हि यादृक् स्याद्वर्णसङ्करः । ततः कष्टतरो वडी वर्णानां सङ्करो मतः ॥ न च मार्गविभागमात्रवृत्त्या विदुषा वज्रपरिग्रहो विधेयः । गुणवद्गुणसम्पदां विभूति- र्व्विपरीतो व्यसनोदयस्य हेतुः ॥ एकमपि यस्य शृङ्गं विदलितमवलोक्यते विशीर्णं वा । गुणवदपि तन्न धार्य्यं वज्रं श्रेयोऽर्थिभिर्भवने ॥ स्फुटिताग्निविशीर्णशृङ्गदेशं मलवर्णैः पृषतैरुपेतमध्यम् । नहि वज्रभृतोऽति वज्रमाशु श्रियमन्याश्रयलालसां न कुर्य्यात् ॥ यस्यैकदेशः क्षतजावभासो यद्वा भवेल्लोहितवर्णचित्रम् । न तन्न कुर्य्याद्ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जीवितान्तम् ॥ कोट्यः पार्श्वानि धाराश्च षडष्टौ द्बादशेति च । उत्तुङ्गसमतीक्ष्णाग्रा वज्रस्याकरजा गुणाः ॥ षट्कोटिशुद्धममलं स्फुटतीक्ष्णधारं वर्णान्वितं लघु सुपार्श्वमपेतदोषम् । इन्द्रायुधांशुविसृतिच्छुरितान्तरीक्ष- मेवंविधं भुवि भवेत् सुलभं न वज्रम् ॥ तीक्ष्णाग्रं विमलमपेतसर्व्वदोषं धत्ते यः प्रयततनुः सदैव वज्रम् । वृद्धिस्तं प्रतिदिनमेति यावदायुः श्रीसम्पत्सुतधनधान्यगोपशूनाम् ॥ व्यालवह्रिविषव्याघ्रतस्कराम्बुभयानि च । दूरात्तस्य निवर्त्तन्ते कर्म्माण्याथर्व्वणानि च ॥ यदि वज्रमपेतसर्व्वदोषं विभृयात्तण्डुलविंशतिं गुरुत्वे । मणिशास्त्रविदो वदन्ति तस्य द्विगुणं रूपकलक्षणमग्र्यं मूल्यम् ॥ त्रिभागहीनार्द्धतदर्द्धशेषं त्रयोदशं त्रिंशदतोऽर्द्धभागाः । अशीतिभागोऽथ शतांशभागः सहस्रभागोऽल्पसमानयोगः ॥ यत्तण्डुलैर्द्बादशभिः कृतस्य वज्रस्य मूल्यं प्रथमं प्रदिष्टम् । द्बाभ्यां क्रमाद्धानिमुपागतस्य त्वेकावसानस्य विनिश्चयोऽयम् ॥ न चापि तण्डुलैरेव वज्राणां धारणक्रमः । अष्टाभिः सर्षपैर्गौरैस्तण्डुलं परिकल्पयेत् ॥ यत्तु सर्व्वगुणैर्युक्तं वज्रं तरति वारिणि । रत्नवर्गे समस्तेऽपि तस्य धारणमिष्यते ॥ अनेनापि हि दोषेण लक्ष्यालक्ष्येण दूषितम् । स्वमूल्यात् दशमं भागं वज्रं लभति मानवः ॥ प्रकटानेकदोषस्य स्वल्पस्य महतोऽपि वा । स्वमूल्याच्छतशो भागो वज्रस्य न विधीयते ॥ स्पृष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते । रत्नानां परिकर्म्मार्थं मूल्यं तस्य भवेल्लघु ॥ प्रथमं गुणसम्पदाभ्युपेतं प्रतिबद्धं समुपैति यच्च दोषम् । अलमाभरणेन तस्य राज्ञो गुणहीनोऽपि मणिर्न भूषणाय ॥ नार्य्या वज्रमधार्य्यं गुणवदपि सुतप्रसूति- मिच्छन्त्या । अन्यत्र दीर्घचिपिटह्रस्वाद्गुणैर्विमुक्ताच्च ॥ अयसा पुष्परागेण तथा गोमेदकेन च । वैदूर्य्यस्फटिकाभ्याञ्च काचैश्चापि पृथग्विधैः ॥ प्रतिरूपाणि कुर्व्वन्ति वज्रस्य कुशला जनाः । परीक्षा तेषु कर्त्तव्या विद्वद्भिः स्वपरीक्षकैः ॥ क्षारोल्लेखनशालाभिस्तेषां कार्य्यं परीक्षणम् । पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः ॥ सर्व्वाणि विलिखेद्बज्रं तच्च तैर्न विलिख्यते ॥ गुरुता सर्व्वरत्नानां गौरवाधारकारणम् । वज्र तान्वैपरीत्येन सूरयः परिचक्षते ॥ जातिरजातिं विलिखन्ति वज्रकुरुविन्दाः । वज्रैर्वज्रं विलिखति नान्येन लिख्यते वज्रम् । वज्राणि मुक्ता मणयो ये च केचन जातयः । न तेषां प्रतिबद्धानां भा भवत्यूर्द्ध्वगामिनी ॥ तिर्य्यक्क्षतत्वात् केषाञ्चित् कथञ्चिद्यदि दृश्यते । तिर्य्यगालिख्यमानानां सा पार्श्वेष्वपि हन्यते ॥ यद्यपि विशीर्णकोटिः सबिन्दुरेखान्वितो विवर्णो वा । तदपि धनधान्यपुत्त्रान् करोति सेन्द्रायुधो वज्रः । सौदामिनीविस्फुरिताभिरामं राजा यथोक्तं कुलिशं दधानः । पराक्रमाक्रान्तपरप्रतापः समस्तसामन्तभुवं भुनक्ति ॥” इति गारुडे ६८ अध्यायः ॥ वज्रार्थे वैदिकपर्य्यायो यथा । दिद्युत् १ नेमिः २ हेतिः ३ नमः ४ पविः ५ सृकः ६ वृकः ७ वधः ८ वज्रः ९ अर्कः १० कुत्सः ११ कुलिशः १२ तुजः १३ तिग्मम् १४ मेनिः १५ स्वधितिः १६ सायकः १७ परशुः १८ । इत्यष्टादश वज्रनामानि । इति वेदनिघण्टौ । २ । २० ॥



Correction: