संस्कृत-शब्दकोशः

वज्रनिर्घोष वज्रपाणि

वज्रनिष्पेष

शब्दकल्पद्रुमः

वज्रनिष्पेषः || पुं, (वज्राणां निष्पेषः संघर्षध्वनिः ।)
वज्रनिर्घोषः । तत्पर्य्यायः । स्फुर्जथुः २ । इत्य- मरः । १ । ३ । १० ॥ “द्वे वज्रजनितशब्दे । अन्योन्यसंघट्टनात् भग्नं साग्निमेघखण्डं वज्रमिव वज्रं तस्य साटोपध्वनौ द्वयमिति केचित् ॥ ट्वो स्फुर्ज्जी वज्रनिष्पेषे । निष्पेषः संघट्टध्वनिः । अशन्याधात इत्येके । निष्पेषश्चूर्णनं साटोप- ध्वनिश्च इह तु ध्वनिरभिप्रेतः । श्रुत्वा विस्फु- र्जथुप्रख्यं निनादं परिदेविनीति भट्टिः । ट्वितो- ऽथुरिति अथुः निपातनान् दीर्घः । स्फुर्जे- रथुरिति दीर्घार्थं परसूत्रम् । केचित्तु दीर्घं नेच्छन्ति । केचिद्बिभाषया दीर्घमिच्छन्ति । वज्रस्य निष्पेषो वज्रनिष्पेषः धौ पिष ऌ चूर्णने घञ् । निष्पेषो द्बिमूर्द्धन्यः ।” इति भरतः ॥



Correction: