वाचस्पत्यम्
वज्रपाणि || पु० वज्रं पाणौ यस्य । १ इन्द्रे २ पेचके च त्रिका० वज्रहस्तादयोऽप्यत्र ।
शब्दकल्पद्रुमः
वज्रपाणिः || पुं, (वज्रं पाणौ यस्य ।)
इन्द्रः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ६ । १९ । ७ । “एष व्यूहामि ते व्यूहं राजसत्तम दुर्ज्जयम् । अचलं नाम वज्राख्यं विहितं वज्रपाणिना ॥” ब्राह्मणः । यथा, महाभारते । १ । १७१ । ५१ । “वज्रपाणिर्ब्राह्मणः स्यात् क्षत्त्रं वज्ररथं स्मृतम् । वैश्या वै दानवज्राश्च कर्म्मवज्रा यवीयसः ॥”)