वञ्चना
वञ्चुक
वञ्चित
शब्दकल्पद्रुमः
वञ्चितः || त्रि (वञ्च्यते स्मेति । वञ्च + णिच् + क्तः ।)
वञ्चनाविशिष्टः । प्रतारितः । तत्- पर्य्यायः । विप्रलब्धः २ । इति हेमचन्द्रः । ३ । १०६ ॥ (यथा, कुमारे । ४ । १० । “विधिना जन एष वञ्चित- स्त्वदधीनं खलु देहिनां सुखम् ॥”)