वाचस्पत्यम्
वञ्जुलप्रिय || पु० वञ्जुलं वक्रं प्रीणाति प्री—क । वेतसे रत्नमा०
शब्दकल्पद्रुमः
वञ्जुलप्रियः || पुं, (वञ्जुलस्य प्रियः । वञ्जुलः प्रिय- श्चेति कर्म्मधारयो वा ।) वेतसवृक्षः । यथा, “विदुलो वेतसः शीतो वानीरो वञ्जुलप्रियः ॥” इति रत्नमाला ॥