शब्दकल्पद्रुमः
वञ्जुला || स्त्री (रञ्जुल + टाप् ।)
बहुदुग्धा गौः । इति हेमचन्द्रः । ४ । ३३५ ॥ (नदीविशेषः । यथा, मात्स्ये । ११३ । २९ । “गोदावरो भीमरथी कृष्णवेणी च वञ्जुला । तुङ्गभद्रा सुप्रयोगा बाह्या कावेरी चैव तु । दक्षिणापथनद्यस्ताः सह्यपादाद्बिनिःसृताः ॥”)