वाचस्पत्यम्
वट || कथने भ्वा० पर० द्विक० सेट् घटा० । वटयति अवाटीत् अवटीत् । ववटतुः ।
वाचस्पत्यम्
वट || पु० वट—अच् । १ स्वनामख्याते वृक्षे अमरः २ शण- निर्मिततन्तौ च त्रि० । (वेँटे) मेदि० । वटवृक्षस्य रुद्ररूपत्वमश्वत्थशब्दे ५१७ पृ० उक्तम् । “वटः शीतो गुरुर्ग्राही कफपित्तव्रणापहः । वर्ण्यो विसर्पदाहघ्नः कषायो योनिदोषकृत्” भावप्र० । ३ साम्ये हेमच० । ४ कपर्दे ५ गोले ६ भक्ष्यभेदे (वडा) मेदि० ।
वाचस्पत्यम्
वट || विभाजने वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् । वण्टयति ते वण्ठति । अववण्टत् त अवण्टीत् ।
वाचस्पत्यम्
वट || वेष्टने भागे च अद० चुरा० उभ० सक० सेट् । वटयति ते । अववटत् त ।
वाचस्पत्यम्
वट || वेष्टने भ्वा० पर० सक० सेट् । वटति । अवटीत् अवाटीत् ववटतुः ।
वाचस्पत्यम्
वट || स्तेये लौ० पर० सक० सेट् इदित् । वण्टति अवण्टीत् ।
शब्दकल्पद्रुमः
वट || इ कि वण्टने । इति कविकस्त्पद्रुमः ॥ (चुरा०- पक्षे भ्वा०-पर०-सक०-सेट् ।)
वण्टनं विभागः । इ, वण्ट्यते । कि, वण्टयति वण्टति । वण्टन्ति हाटकं यस्मात् प्राप्य विप्राः परस्परम् । इति हलायुधः । अयं चुरादौ कैश्चिन्न पठ्यते । इति दुर्गसिंहादयः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वट || इ स्तेये । सौत्रधातुरयम् । इति कविकल्प- द्रुमः ॥ (भ्वा०-पर०-सक०-सेट् । इदित् ।)
इ, वण्टकः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वट || त् क वेष्टे । भागे । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-सेट् ।)
वटयति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वटः || त्रि (वटतीति । वट् + अच् ।)
गुणः । इति मेदिनी । टे, २४ ॥ वेटे इति भाषा ॥
शब्दकल्पद्रुमः
वटः || पुं, (वटति वेष्टयति मूलेन वृक्षान्तरमिति ।)
वट् + पचाद्यच् ।)
वृक्षविशेषः । वड्गाछ इति भाषा । तत्पर्य्यायः । न्यग्रोधः २ बहु- पात् ३ । इत्यमरः । २ । ४ । ३२ ॥ वृक्षनाथः ४ यमप्रियः ५ । इति शब्दरत्नावली ॥ रक्त- फलः ६ शृङ्गी ७ कर्म्मजः ८ ध्रुवः ९ क्षीरी १० वैश्रवणावासः ११ भाण्डीरः १२ । इति जटा- धरः ॥ जटालः १३ रोहिणः १४ अवरोही १५ विटपी १६ स्कन्धरुहः १७ मण्डली १८ महा- च्छायः १९ भृङ्गी २० यक्षावासः २१ यक्षतरुः २२ पादरोहणः २३ नीलः २४ शिफारुहः २५ बहुपादः २६ वनस्पतिः २७ । अस्य गुणाः । कषायत्वम् । मधुरत्वम् । शिशिरत्वम् । कफ- पित्तज्वरदाहतृषामोहव्रणशोफनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वटः शीतो गुरुर्ग्राही कफपित्तव्रणापहः । वर्ण्यो विसर्पदाहघ्नः कषायो योनिदोषहृत् ॥” इति भावप्रकाशः ॥ * ॥
स च रुद्रस्वरूपः । यथा, — ऋषय ऊचुः । “कथं त्वयाश्वत्थवटौ गोब्राह्मणसमौ कृतौ । सर्व्वेभ्योऽपि तरुभ्यस्तौ कथं पूज्यतमौ कृतौ ॥ सूत उवाच । अश्वत्थरूपो भगवान् विष्णुरेव न संशयः । रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक् ॥ दर्शनस्पर्शसेवासु ते वै पापहराः स्मृताः । दुःखापद्व्याधिदुष्टानां विनाशकारिणौ ध्रुवम् ॥” इति पाद्मोत्तरखण्डे १६० अध्यायः ॥ अन्यत् पलाशशब्दे द्रष्टव्यम् ॥ * ॥
कपर्द्दः । इति मेदिनी । टे, २४ ॥ कडि इति भाषा ॥ गोलः । भक्ष्यम् । वडा इति भाषा । साम्यम् । इति हेमचन्द्रः ॥ * ॥
क्ली, व्रजमण्डलाभ्यन्तरीणवट- संज्ञकषोडशवनानि यथा । अथैषां षट्- साङ्गवनानामभ्यन्तरे सङ्केतवटाद्या यमुनाया- श्चतुरशीतिक्रोशमर्य्यादान्तरे दक्षिणोत्तरतटयोः षोडशवनानि । पाद्मे । “सङ्केतवटमादौ तु भाण्डीराख्यं वटं द्वयम् । यावकाख्यं तृतीयञ्च वटं शृङ्गारसंज्ञकम् ॥ तूर्य्यं वंशिवटं श्रेष्ठं पञ्चमं श्रीवटञ्च षट् । सप्तमञ्च जटाजूटं कामाख्यवटमष्टकम् ॥ मनोऽर्थवटकं नाम नवमं परिकीर्त्तितम् । आशावटं महाश्रेष्ठं दशमं शुभदायकम् ॥ अशोकाख्यं वटं श्रेष्ठमेकादशमुदाहृतम् । नाम केलिवटं श्रेष्ठं द्बादशं परिकीर्त्तितम् ॥ नाम ब्रह्मवटञ्चैव त्रयोदशमसंज्ञकम् । नाम रुद्रवटं श्रेष्ठं चतुद्दशमुदाहृतम् ॥ श्रीधराख्यं वटं ख्यातं पञ्चदशसमीरितम् । मावित्राख्यं वटं श्रेष्ठं संख्याषोडशनिर्म्मितम् ॥” इति व्रजमण्डलान्तरे षोडशवटानि । इति नारायणभट्टकृतव्रजभक्तिविलासः ॥ * ॥
शब्दकल्पद्रुमः
वट || म उक्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
म, वटयति । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
वट || वेष्टे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
वटति वृक्षं लता । इति दुर्गा- दासः ॥