संस्कृत-शब्दकोशः

वटुकरणं वठर

वठ

वाचस्पत्यम्

वठ ||‍ असहायकरणे भ्वा० आत्म० सक० सेट् इदित् । वण्ठते अवण्ठिष्ट ।


वाचस्पत्यम्

वठ ||‍ सामर्थ्ये भ्वा० पर० अक० सेट् । वठति । अवाठीत अवठीत् ववठतुः ।


शब्दकल्पद्रुमः

वठ || इ ङ एकचरे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् । इदित् ।)
एककर्त्तृकचर- णम् । इ, वण्ट्यते । ङ, वण्ठते चौरश्चोरयितुं एकश्चरतीत्यर्थः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वठ || स्थौल्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।)
स्थौल्यमिह सामर्थ्यम् । वठति दाता दातुं समर्थः स्यादित्यर्थः । इति दुर्गा- दासः ॥



Correction: