संस्कृत-शब्दकोशः

वठ वड

वठर

वाचस्पत्यम्

वठर ||‍ पु० वठ—अरन् । १ मूर्खे उणादि० २ अम्बष्ठे हेमच० ३ शठे ४ मन्दे च त्रिका० ।


शब्दकल्पद्रुमः

वठरः || त्रि (वच् + अरः । ठश्चान्तादेशः ।)
शठः । मन्दः । इति त्रिकाण्डशेषः ॥


शब्दकल्पद्रुमः

वठरः || पुं, (वक्तीति । वच् + “वचिमनिभ्यां चिच्च ।” उणा० ५ । ३९ । इति अरप्रत्ययः । ठश्चान्तादेशः ।)
मूर्खः । इत्युणादिकोषः ॥ अम्बष्ठः । इति हेमचन्द्रः ॥ शब्दकारः । वक्रः । इति संक्षिप्तसारोणादिवृत्तिः ॥



Correction: