शब्दकल्पद्रुमः
वडवानलः is an alternate of बडवानलः. ब(व)डवानलः || पुं, (बडवाया अनलः ।)
बडवाग्निः । तत्पर्य्यायः । सलिलेन्धनः २ बडवामुखः ३ काक- ध्वजः ४ बाणिजः ५ स्कन्दाग्निः ६ तृणधुक् ७ काष्ठधुक् ८ । इति त्रिकाण्डशेषः ॥ और्व्वः ९ बाडवः १० । इत्यमरः । १ । १ । ५९ ॥ उर्व्वस्य ऋषेरपत्यम् और्व्वः ष्णः । बडवायां विद्यमानो बाडवः ष्णः । बडवाया अनलो बडवानलः । आधाराधेयभावसम्बन्धः । पुरा किल उर्व्वेण मुनिना अयोनिजं पुत्त्रमिच्छता वक्षो मथितं तत्र ज्वालामयः पुरुषो जातः स च समुद्रे बडवामुखे अवस्थापितः । इति पौराणिकाः ॥ इति तट्टीकायां भरतः ॥ * ॥
तस्य विवरणं यथा, —
“और्व्वस्तु तपसाविष्टो निवेश्योरुं हुताशने । ममन्थैकेन दर्भेण सुतस्य व्रतधारिणम् ॥ तस्योरुं सहसा भित्त्वा ज्वालामाली ह्यनिन्दनः । जगतो दहनाकाङ्क्षी पुत्त्रोऽग्निः समपद्यत ॥ और्व्वस्योरुं विनिर्भिद्य और्व्वो नामान्तको- ऽनलः । दिधक्षन्निव लोकांस्त्रीन् जज्ञे परमकोपनः ॥ उत्पन्नमात्रश्चोवाच पितरन्दीनया गिरा । क्षुधा मे वाधते तात ! जगद्भक्षे त्यजस्व माम् ॥ त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश । निर्दहन् सर्व्वभूतानि ववृधे सोऽन्तकोऽनलः ॥ एतस्मिन्नन्तरे ब्रह्मा मुनिमौर्व्वं समागतः । उवाच वार्य्यतां पुत्त्रो जगतस्त्वं दयां कुरु ॥ अस्यापत्यस्य ते विप्र ! करिष्ये स्थानमुत्तमम् । तथ्यमेतन्मंम वचः शृणु त्वं वदतांवर ! ॥ और्व्व उषाच । धन्योऽस्म्यनुगृहीतोऽस्मि यन्मेऽद्य भगवान् शिशोः । मतिमेतान्ददातीह परमानुग्रहाय वै ॥ प्रभातकाले संप्राप्ते काङ्क्षितव्ये समागमे । भगवंस्तर्पितः पुत्त्रः कैर्हव्यैः प्राप्स्यते सुखम् ॥ कुत्र वास्य निवासः स्याद्भोजनन्तु किमात्मकम् । विधास्यतीह भगवान् वीर्य्यतुल्यं महौजसः ॥ ब्रह्मोवाच । बडवामुखेऽस्य वसतिः समुद्रे वै भविष्यति । मम योनिर्जलं विप्र ! तत्र मे तोयदं मुखम् ॥ अत्राहमासे नियतं पिबन् वारिमयं हविः । तद्धविस्तव पुत्त्रस्य विसृजन्नानयंश्च तम् ॥ ततो युगान्ते भूतानां मेघवाहञ्च पुत्त्रक ! । सहितौ विचरिष्यावो निष्पुराणकराविह ॥ एषोऽग्निरन्तकाले तु सलिलाशी मया कृतः । दहनः सर्व्वभूतानां सदेवासुररक्षसाम् ॥ एवमस्त्विति तं सोऽग्निः संवृतज्वालमण्डलः । प्रविवेशार्णवमुखं विप्रनष्टान्तरप्रभम् ॥” इति मात्स्ये १५० अध्यायः ॥ (मदनदहनाय हरनेत्रसमुद्भूतोऽग्निरपि बडवा- नलः । अस्य प्रमाणादिकं बडवाशब्दे द्रष्टव्यम् ॥)
लङ्काया दक्षिणे पृथिव्याश्चतुर्थभागरूपस्थान- विशेषः । इति सिद्धान्तशिरोमणिः ॥ (वटि- कौषधविशेषः । यथा, —
“शुद्धताम्रस्य भागैकं मरिचस्य तथैव च । विषं तत्तु ल्यकं दद्यात् तत्सर्व्वं श्लक्ष्णचूर्णितम् ॥ लाङ्गलीरससंयुक्तं तत्सर्व्वं पुटके पचेत् । रक्तिकाद्वितयं वापि त्रितयं वा प्रकल्पते ॥ दोषे व्योषसमायुक्तस्त्रिदोषशमनो भवेत् । भक्षयेत् पवने चोग्रे बडवानलसंज्ञितम् ॥ इति बडवानलो रसः ॥” इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे ॥)