शब्दकल्पद्रुमः
वडवामुखः is an alternate of बडवामुखः. ब(व)डवामुखः || पुं, (बडवाया घोटक्या मुखमाश्रय- त्वेनास्त्यस्य । अर्श आदित्वात् अच् ।)
बडवा- नलः । इति हेमचन्द्रः ॥ (यथा, हरिवंशे । ९७ । २२ । “सा यथैवार्णवगता तथैव बडवामुखे ॥” महादेवस्य मुखमित्येके । यथा, महाभारते । ७ । २०० । १११ । “तस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत । बडवामुखेति विख्यातं पिबत्तोयमयं हविः ॥” महादेवस्य नामभेदः । यथा, महाभारते । १३ । १७ । ५५ । “विष्णुः प्रसादितो यज्ञः समुद्रो बडवामुखः ॥” कूर्म्मस्य दक्षिणकुक्षिस्थजनपदविशेषः । यथा, मार्कण्डेये । ५८ । ३० । “कूर्म्मस्य दक्षिणे कुक्षौ बाह्यपादस्तथापरम् । काम्बोजाः पह्नवाश्चैव तथैव बडवामुखाः ॥”)
वटिकौषधविशेषः । यथा, —
“शुद्धसूतं समं गन्धं मृतताम्राभ्रटङ्गणम् । सामुद्रञ्च यवक्षारं स्वर्ज्जिसैन्धवनागरम् ॥ अपामार्गस्य च क्षारं पलाशवरुणस्य च । प्रत्येकं सूततुल्यं स्यादम्लयोगेन मर्द्दयेत् ॥ हस्तिशुण्डीद्रवैश्चाग्नौ मर्द्दयित्वा पुटेल्लघु ॥ माषमात्रः प्रदातव्यो रसोऽयं बडवामुखः । ग्रहणीं विविधां हन्ति संग्रहग्रहणीं ज्वरम् ॥ इति बडवामुखो रसः ॥” इति वैद्यकरसेन्द्रसारसंग्रहे ग्रहण्यधिकारे ॥)