संस्कृत-शब्दकोशः

वडवामुख वडवाहृत

वडवासुतौ

शब्दकल्पद्रुमः

वडवासुतौ is an alternate of बडवासुतौ. ब(व)डवासुतौ || पुं, (बडवाया घोटकीरूपायाः त्वष्टृ- सुतायाः संज्ञायाः सुतौ ।)
अश्विनीकुमारौ । यथा, हेमचन्द्रः । “स्वर्वैद्यावश्विनीपुत्त्रावश्विनौ बडवासुतौ ॥” (तयोरुत्पत्तिकथा यथा, हरिवंशे । ९ । ४९ — ५३ । “गच्छ देव ! निजां भार्य्यां कुरूंश्चरति सोत्त- रान् । बडवारूपमास्थाय वने चरति शाद्वले ॥ स तथा रूपमस्थाय स्वभार्य्यारूपलीलया । ददर्श योगमास्थाय स्वां भार्य्यां बडवां ततः ॥ अधृष्यां सर्व्वभूतानां तपसा नियमेन च । बडवावपुषा राजंश्चरन्तीमकुतोभयाम् ॥ सोऽश्वरूपेण भगवांस्तां मुखे समभावयत् ॥ मैथुनाय विचेष्टन्ती परपूरुषशङ्कया । सा तन्निरवमच्छुक्रं नासिकायां विवस्वतः ॥ देवौ तस्यामजायेतामश्विनौ भिषजां वरौ । नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥”)



Correction: