वाचस्पत्यम्
वण्ट || पु० वण्ट—अच् । १ भागे २ दात्रादेः धारणस्थाने (वाँठ) ३ अकृतोद्वाहे च । (डेङ्गो) शब्दमा०
वाचस्पत्यम्
वण्ट || विभाजने अद० चुरा० उभ० सक० सेट । वण्टयति ते अववण्टत् त ।
शब्दकल्पद्रुमः
वण्ट || त् क भागे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
वण्टयति वण्टापयति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वण्टः || पुं, (वण्ट्यते इति । वण्ट् + घञ् ।)
भागः । दात्रमुष्टिः । इति हेमचन्द्रः । ६ । ७० ॥ (वण्ट + अच् ।)
अकृतोद्वाहः । इति शब्दमाला ॥