वाचस्पत्यम्
वतण्ड || पु० अव + तडि—अच् अवाल्लोपः । मुनिभेदे उणादि० ।
शब्दकल्पद्रुमः
वतण्डः || पुं, (वनतीति । वन् + “अण्डन् कृसृभृ- वृञः ।” उणा० १ । १२८ । इत्यत्र वनतेस्तका- रान्तादेशः । वतण्ड इति काचिद्वृत्तिरित्यु- ज्ज्वलदत्तोक्त्या अण्डन् प्रत्ययेन साधुः ।)
मुनि- भेदः । इत्युणादिकोषः ॥