वाचस्पत्यम्
वत्सनाभ || पु० वत्सान् पशुशिशून् नभ्यति हिनस्ति नभ- अण् वत्सस्य नामिराकारेऽस्त्यस्य अच् वा । स्थावरे विषभेदे अमरः । तल्लक्षणादि भावप्र० उक्तं यथा ||“सिन्धुवारसदृक्पत्रोवत्सनाभ्याकृतिस्तथा । यत् पार्श्वेन तरोर्वृद्धिर्वत्सनाभः स भाषितः । तस्य सामान्य गुणा यथा । “विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च । आग्नेय वातकफहृद्योगवाहि मदावहम्” । व्यवायि सकलकायव्यापनपूर्वकपाकगमनशीलम् । वि- काशि ओजसःशोषणपूर्बकं सन्धिबन्धशिथिलीकरणशी- लम् । आग्नेयम् अधिकाग्न्यंशं योगवाहि संसर्ग- गुणग्राहकम् मदावहं तमोगुणाधिक्येन बुद्धिविध्यंस- कम् । “तदेव युक्तियुक्तम् तु प्राणदायि रसायनम् । योगवाहि त्रिदोषघ्नं वृंहणं वीर्य्यवर्द्धनम् । ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधनात् । तस्माद्विषं प्रयो- गेषु शोधयित्वा प्रयोजयेत्” भावप्र० ।
शब्दकल्पद्रुमः
वत्सनाभः || पुं, (वत्सान् नभ्यति हिनस्तीति । नभ हिंसायाम् + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।)
विषवृक्षविशेषः । इत्यमरः १ । ८ । ११ ॥ स तु स्थावरविषभेदः । प्रायो वत्सान् नभ्यति हिनस्ति वत्सनाभः णभ्य ग हिंसे ढात् षन्निति षन् । वत्सस्य नाभिरिव वत्सनाभः ष्णः अनित- श्चेति न वृद्धिः अयं सिन्धुवारपत्रसदृशपत्रः । इति भारतः ॥ * ॥
(यथा, हरिवंशे । २२३ । ६५ । “वरुणा वत्सनाभाश्च पनसाश्चन्दनैः सह ॥)
तत्पर्य्यायः । अमृतम् २ विषम् ३ उग्रम् ४ महौषधम् ५ गरलम् ६ मारणम् ७ नागः ८ स्तौककम् ९ प्राणहारकम् १० स्थावरादि ११ । अस्य गुणाः । अतिमधुरत्वम् । उष्णत्वम् । वातकफकण्ठरुक्सन्निवातनाशित्वम् । पित्त- सन्तापकारकत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अस्य स्वरूपनिरूपणं यथा । “सिन्धुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा । यत्पार्श्वेन तरोर्वृद्धिर्व्वत्सनाभः स भाषितः ॥” तस्य सामान्यगुणा यथा । “विषं प्राणहरं प्रोक्तं व्यवायि च विकासि च । आग्नेर्य वातकफहृद्योगवाहि मदावहम् ॥” व्यवायि सकलकायव्यापनपूर्ब्बकपाकगमनशीलम् । बिकासि ओजःशोषणपूर्ब्बकं सन्धिबन्धशिथिली- करणशीलम् । आग्नेयं अधिकाग्न्यंशम् । योग- वाहि संसर्गगुणग्राहकम् । मदावहं तमो- गुणाधिक्येन बुद्धिविध्वंसकम् । “तदेव युक्तियुक्तं तु प्राणदायि रसायनम् ॥ योगवाहि त्रिदोषघ्नं वृं हणं वीर्य्यवर्द्धनम् ॥ ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधनात् । तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत् ॥” इति भावप्रकाशः ॥ (क्लीवेऽपि दृश्यते । यथा, —
“चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्त्तिते ।” “ग्रीवास्तम्भो वत्सनाभे पीतविण्मूत्रनेत्रता ॥” इति सुश्रुते कल्पस्थाने द्वितीयेऽध्याये ॥)