वाचस्पत्यम्
वदा(द)न्य || पु० वद—अन्य पृषो० वा दीर्घः । भूरिदानशीले अमरः ।
शब्दकल्पद्रुमः
वदान्यः || त्रि (वदति सर्व्वेभ्य एव दास्यामीति मनो- हरवाक्यमिति । वद् + “वदेरान्यः ।” उणा० ३ । १०४ । इति आन्यः ।)
बहुप्रदः । (यथा, रघुः । ५ । २४ । “गतो वदान्यान्तरमित्ययं मे माभूत् परीवादनवावतारः ॥”)
वल्गुवाक् । इत्यमरः । ३ । १ । ६ ॥ (स्वनाम- ख्यात ऋषिविशेषे, पुं । यथा, महाभारते । १३ । १९ । ११ । “निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः । ऋषेरथ वदान्यस्य वव्रे कन्यां महात्मनः ॥”)