वाचस्पत्यम्
वदावद || पु० अत्यन्तं वदति वद—अच् नि० । बहुवक्तरि अमरः ।
शब्दकल्पद्रुमः
वदावदः || त्रि (अत्यन्तं वदतीति । वद् + अच् । “चरिचलीति ।” ३ । १ । २३४ । इत्यस्य वार्त्तिकोक्त्या निपातितम् ।) वक्ता । इत्यमरः । ३ । १ । ३५ ॥