वाचस्पत्यम्
वधू is an alternate of बधू. ब(व)धू || स्त्री बध्नाति ममतया बन्ध—ड गलोपः, उद्यते वह- क घश्चान्टाऌएशे वा । १ नार्य्व्याम्, २ पृक्कायाञ्च अमरः ३ स्नुषायां, ४ नबोढिआयाम्, भार्य्यायां ५ शारिवोषधौ ६ शआम्, च मेदि० ।
वाचस्पत्यम्
वधू || स्त्री उह्यते पितृगेहात् पतिगृहं वह—ऊ धुकच् । १ भार्य्यायाम् २ नवोढायां ३ पुत्रजायायाम् अमरः । ४ शठ्याञ्च मेदि० । अस्य ओष्ट्यादित्वमित्यन्ये
शब्दकल्पद्रुमः
वधूः is an alternate of बधूः. ब(व)धूः || स्त्री (बध्नाति प्रेम्णा या । बन्ध + ऊः नलोपश्च । अन्तःस्थवादौ तु वहति संसारभारं उह्यते भर्त्त्रादिभिरिति वा । वह + “वहेर्धश्च ।” उणा० १ । ८५ । इति ऊः धश्चान्तादेशः ।)
नारी । स्नुषा । पृक्का । इत्यमरः । ३ । ३ । १०१, २ । ४ । १३३ ॥ (अस्याः पर्य्यायो यथा, —
“पृक्का स्याद्ब्राह्मणी देवी मरुन्माला लता लघुः । समुद्रान्ता बधूः कोटिवर्षालङ्कापिकेत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥)
शारिवौषधिः । शटी । (अस्याः पर्य्यायो यथा, “शटी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका । गन्धारिका गन्धबधूर्बधूः पृथुपलाशिका ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
नवोढा । (यथा, रघुः । ७ । ४ । “वरः स बध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम् ॥”)
भार्य्या । इति मेदिनी । धे, १४ ॥ भरतेन अमरकोषटीकायां पवर्गीयबकारादिबन्धधातुना निष्पादितोऽयम् । मेदिनीकारेण तु अन्तःस्थ- वकारादिशब्दमध्ये संगृहीतः ॥ अथ नवबध्वा द्विरागमनयात्रा । तत्राष्टमदशमद्बादशषष्ठचतुर्थ- वर्षाणि निषिद्धानि । मासाः मार्गशीर्षफाल्गुन- वैशाखा विहिताः । पक्षः शुक्लः । पुष्यस्वाती हस्ताधनिष्ठोत्तराषाढोत्तरफल्गुन्युत्तरभाद्रपद्- रेवतीमृगशिरोरोहिणीपुनर्व्वसुपूर्ब्बाषाढा ए- तानि नक्षत्राणि विहितानि । सोमबुधबृह- स्पतिशुक्राणां वाराः विहिताः । तिथयो यात्रा- प्रकरणोक्ताः । चन्द्रताराशुद्धौ कालशुद्धौ त्र्यह- स्पर्शवारवेलादिक्शूलादीन् परित्यज्य कर्त्तव्या । इति ज्योतिषम् ॥ “वृत्ते पाणिग्रहे गेहात् पितुः पतिगृहं प्रति । पुनरागमनं बध्वास्तद्द्विरागमनं विदुः ॥ विवाहमासि प्रथमं बध्वा नागमनं यदि । तदा सर्व्वमिदं चिन्त्यं युग्माद्यब्दं विचक्षणैः ॥ भुक्त्वा पितृगृहे नारी भुङ्क्ते स्वामिगृहे यदि । दौर्भाग्यं जायते तस्याः शपन्ति कुलनायिकाः ॥” इति ज्योतिस्तत्त्वम् ॥