शब्दकल्पद्रुमः
वनगोचरः || पुं, (वनं गोचरो देशो यस्य ।)
व्याधः । इति केचित् ॥ (वनं जलं गोचरो निवासस्थानं यस्य । नारायणः । इति भाग- वतटीकायां श्रीधरस्वामी । ३ । १८ । ३ ॥ त्रि, जलचरः । यथा, भागवते । ३ । १८ । २ । “मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया जहास चाहो वनगोचरो मृगः ॥” काननविहारी । यथा, मनुः । ८ । २५९ । “सामन्तानामभावे तु मौलानां सीम्नि साक्षि- णाम् । इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान् ॥”)