शब्दकल्पद्रुमः
वनजा || स्त्री (वने जायते इति । जन् + डः । टाप् ।) मुद्गपर्णी । इति मेदिनी । जे, २८ ॥ अरण्यकार्पासी । वन्योपोदकी । अश्वगन्धा । गन्धपत्रा । मिश्रेया । ऐन्द्रम् । इति राज- निर्घण्टः ॥