संस्कृत-शब्दकोशः

वनजा वनतिक्त

वनजीर

शब्दकल्पद्रुमः

वनजीरः || पुं, (वनोद्भदो जीरः ।)
वनोद्भव- जीरकः । तत्पर्य्यायः । बृहत्पाली २ सूक्ष्म- पत्रः ३ अरण्यजीरः ४ कणः ५ । अस्य गुणाः । कटुत्वम् । शीतत्वम् । व्रणनाशित्वञ्च । इति राजनिर्घण्टः ॥



Correction: