शब्दकल्पद्रुमः
वनपिप्पली || स्त्री (वनोद्भवा पिप्पली ।)
वनोद्भव- पिप्पली । तत्पर्य्यायः । सूक्ष्मपिप्पली २ क्षुद्र- पिप्पली ३ वनकणा ४ । अस्या गुणाः । कटु- त्वम् । उष्णत्वम् । तीक्ष्णत्वम् । रुच्यत्वम् । दीप- नत्वम् । सा आमा गुणाढ्या । शुष्का स्वल्प- गुणा । इति राजनिर्घण्टः ॥