वाचस्पत्यम्
वनपुष्पा || स्त्री वनमिव सहत पुष्पं यस्याः । शतपुष्पायाम् राजनि० ।
शब्दकल्पद्रुमः
वनपुष्पा || स्त्री (वनमिव निविडं पुष्पं यस्याः । टाप् ।) शतपुष्पा । इति राजनिर्घण्टः ॥ (शतपुष्पाशब्देऽस्या विवरणं ज्ञातव्यम् ॥)