संस्कृत-शब्दकोशः

वनमल्ली वनमालिनी

वनमाला

वाचस्पत्यम्

वनमाला ||‍ स्त्री “आजानुलम्बिनी माला सर्वर्तुकुसुमो- ज्ज्वला । मध्ये स्थूलकदम्बाद्या वनमालेति कीर्त्तिता” इत्युक्तायां मालायाम् ।


शब्दकल्पद्रुमः

वनमाला || स्त्री (वनोद्भवपुष्परचिता माला । मध्यपदलोपिसमासः ।)
श्रीकृष्णस्य माला । तत्स्वरूपं यथा, —
“आजानुलम्बिनी माला सव्वर्त्तुकुसुमोज्ज्वला । मध्ये स्थूलकदम्बाढ्या वनमालेति कीर्त्तिता ॥” इति शब्दमाला ॥ (वनपुष्पस्रक् । यथा, रघुः । ९ । ५१ । “ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः ॥”)



Correction: