शब्दकल्पद्रुमः
वनशूरणः || पुं, (वनजातः शूरणः ।)
वनोद्भवौल्लः । वन ओल इति भाषा । तत्पर्य्यायः । सितशूरणः २ वन्यः ३ वनकन्दः ४ अरण्यशूरणः ५ वनजः ६ श्वेतशूरणः ७ वनकण्डुलः ८ । अस्य गुणाः । रुच्यत्वम् । कटुत्वम् । उष्णत्वम् । कृमिगुल्म- शूलादिदोषसर्व्वारोचकनाशित्वञ्च । इति राज- निर्घण्टः ॥