संस्कृत-शब्दकोशः

वनशूरण वनशृङ्गाटक

वनशृङ्गाट

वाचस्पत्यम्

वनशृङ्गाट ||‍ पु० वनस्य शृङाट इव कण्टकावृतत्वात् । गोक्षुरे अमरः । स्वार्थे क । तत्रैवार्थे ।


शब्दकल्पद्रुमः

वनशृङ्गाटः || पुं, (वनस्य शृङ्गाट इव कण्ठकावृत- त्वात् ।)
गोक्षुरकः । इत्यमरः । २ । ४ । ९९ ॥ (अस्य पर्य्यायो यथा, —
“गोक्षुरः क्षुरकोऽपि स्यात् त्रिकण्टः स्वादु- कण्टकः । गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ॥ पलङ्कषा स्वदंष्ट्रा च तथा स्यादिक्षुगन्धिका ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: