संस्कृत-शब्दकोशः

वनित वनिन्

वनिता

वाचस्पत्यम्

वनिता ||‍ स्त्री वन—याचने कर्मणि बा० इत । १ योषिति २ अनुरक्तायां स्त्रियाञ्च मेदि० ।


शब्दकल्पद्रुमः

वनिता || स्त्री (वन + क्त । टाप् ।)
जातरागस्त्री । स्त्रीसामान्यम् । इति मेदिनी । ते, १४९ ॥ (यथा, रघुः । २ । १९ । “वशिष्ठधेनोरनुयायिनं त- मावर्त्तमानं वनिता वनान्तात् । पपौ निमेषालसपक्ष्मपङ्क्ति- रुपोषिताभ्यामिव लोचनाभ्याम् ॥”)



Correction: