वाचस्पत्यम्
वनिन् || पु० वनम् आश्रयतयाऽस्त्यस्य इनि । वानप्रस्थाश्रमयुक्ते
शब्दकल्पद्रुमः
वनी || [न्] पुं, (वनं आश्रयत्वेनास्त्यस्येति । वन + इनिः ।)
वानप्रस्थः । यथा, —
“गृहमेधी शरद्वसन्तयोः व्रीहियवाभ्यां यजेत वनी वर्षासु श्यामाकैरापत्कल्पेऽन्यैः पुरा- तनैर्व्वा ।” इति श्राद्धचिन्तामणौ हारीतः ॥