वन्दका
वन्दन
वन्दथ
शब्दकल्पद्रुमः
वन्दथः || पुं, (वन्दते स्तौति वन्द्यते स्तूयते इति वा । वन्द + “शीङ्शपिरुगमिवश्चिजीविप्राणिभ्यो- ऽथः ।” इत्यत्र वञ्चीत्यस्य स्थाने वन्दीति पाठोऽपि बहुसम्मतः इत्यतोऽथः ।)
स्तोता । स्तुत्यः । वन्दिधातोरथप्रत्ययेन निष्पन्नः । इति सिद्धान्त- कौमुदी ॥