वाचस्पत्यम्
वन्दन || न० वदि—ल्युट् । १ स्तवने २ प्रणामे च । युच् । वन्दनाप्यत्र स्त्री । ३ वदने न० शब्दच० ।
शब्दकल्पद्रुमः
वन्दनं || क्ली (वन्दतेऽनेनेति । वन्द + करणे ल्युट् ।)
वदनम् । इति शब्दचन्द्रिका ॥ (वन्द + भावे ल्युट् ।)
प्रणामः । स तु षोडशधाभक्त्यन्तर्गत- भक्तिविशेषः । यथा । पाद्मोत्तरखण्डे शिव- पार्व्वतीसंवादे । “आद्यं तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः । धारणञ्चोर्द्ध्वपुण्ड्राणां तन्मन्त्राणां परिग्रहः ॥ अर्च्चनञ्च जपो ध्यानं तन्नामस्मरणं तथा । कोर्त्तनं श्रवणञ्चैव वन्दनं पादसेवनम् ॥ तत्पादोदकसेवा च तन्निवेदितभोजनम् । तदीयानाञ्च संसेवा द्वादशीब्रतनिष्ठता ॥ तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः । भक्तिः षोडशधा प्रोक्ता भवबन्धविमुक्तये ॥” इति हरिभक्तिविलासे ११ विलासः ॥ षोडशोपचारपूजान्तर्गतशेषोपचारः । यथा, —
“आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् । मधुपर्काचमनस्नानवसनाभरणानि च । गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा ॥” इत्याह्रिकतत्त्वे आचारचिन्तामणिः ॥ * ॥
अथ वन्दनम् । “प्रणमेदथ साष्टाङ्गं तन्मुद्राञ्च प्रदर्शयेत् । पठेत् प्रतिप्रणामञ्च प्रसीद भगवन्निति ॥” तदुक्तमेकादशे श्रीभगवता । “स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि । स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत् ॥” अथ प्रणामविधिः । कालिकापुराणे । “यः स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिम् । शिरो मत्पादयोः कृत्वा बाहुभ्याञ्च परस्परम् । प्रपन्नं पाहि मामीश भीतं मृत्युमहार्णवात् ॥” किञ्चागमे । “दोर्भ्यां पद्भ्याञ्च जानुभ्यामुरसा शिरसा दृशा । मनसा वचसा चेति प्राणामोऽष्टाङ्ग ईरितः ॥ जानुभ्याञ्चैव बाहुभ्यां शिरसा वचसा धिया । पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराविमौ ॥” इति ॥ “गरुडं दक्षिणे कृत्वा कुर्य्यात्तत्पृष्ठतो बुधः । अवश्यञ्च प्रणामांस्त्रीन् शक्तश्चेदधिकाधिकान् ॥” तथा च नारदपञ्चरात्रे । “सन्धिं वीक्ष्य हरिं चाद्यं गुरून् स्वगुरुमेव च । द्बिचतुर्विंशदथवा चतुर्विंशत्तदर्द्धकम् । नमेत्तदर्द्धमथवा तदर्द्धं सर्व्वथा नमेत् ॥” विष्णुधर्म्मोत्तरे । “देवार्च्चादर्शनादेव प्रणमेन्मधुसूदनम् । स्थानापेक्षा न कर्त्तव्या इष्टार्च्चां द्विजसत्तमाः । देवार्च्चादृष्टपूतं हि शुचि सर्व्वं प्रकीर्त्तितम् ॥” अथ नमस्कारमाहात्म्यम् । नारसिंहे । “नमस्कारः स्मृतो यज्ञः सर्व्वयज्ञेषु चोत्तमः । नमस्कारेण चैकेन नरः पूतो हरिं व्रजेत् ॥” स्कान्दे । “दण्डप्रणामं कुरुते विष्णवे भक्तिभावितः । रेणुसंख्यं वसेत् स्वर्गे शतमन्वन्तरं नरः ॥” तत्रैव श्रीकृष्णनारदसंवादे । “प्रणम्य दण्डवद्भूमौ नमस्कारेण योऽर्च्चयेत् । स यां गतिमवाप्नोति न तां क्रतुशतैरपि ॥ नमस्कारेण चैकेन नरः पूतो हरिं व्रजेत् ॥” तत्रैव शिवोमासंवादे । “भूमिमापीड्य जानुभ्यां शिर आरोप्यवै भुवि । प्रणमेत् यो हि देवेशं सोऽश्वमेधफलं लभेत् ॥” तत्रैवान्यत्र । “तीर्थकोटिसहस्राणि तीर्थकोटिशतानि च । नारायणप्रणामस्य कलां नार्हन्ति षोडशीम् ॥ शाठ्येनापि नमस्कारं कुर्व्वतः शार्ङ्गधन्विने । शतजन्मार्ज्जितं पापं तत्क्षणादेव नश्यति ॥ रेणुगुण्ठितगात्रस्य कणा देहे भवन्ति ये । तावद्बर्षसहस्राणि विष्णुलोके महीयते ॥” विष्णुधर्म्मोत्तरे । “अभिवाद्य जगन्नार्थ कृतार्थश्च तथा भवेत् । नमस्कारक्रिया तस्य सर्व्वपापप्रणाशिनी ॥ जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः । कृत्वा प्रणामं देवस्य सर्व्वान् कामनवाप्नुयात् ॥” ब्रह्मपुराणे । “अनादिनिधनं देवं दैत्यदानवदारणम् । ये नमन्ति नरा नित्यं नहि पश्यन्ति ते यमम् ॥ ये जना जगतां नाथं नित्यं नारायणं द्बिजाः । नमन्ति नहिते विष्णोः स्थानादन्यत्र गामिनः ॥” नारदीये । “एकोऽपि कृष्णस्य सकृत्प्रणामो दशाश्वमेधावभृतैर्न तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥” भक्तिसुधोदये । “विष्णोर्दण्डप्रणामार्थं भक्तेन पतता भुवि । पातितं पातकं कृत्स्नं नोत्तिष्ठति पुनः सह ॥ अपि पापं दुराचारं नरं त्वत्प्रणतं हरे । नेक्षन्ते किङ्करा याम्या उलूकास्तपनं यथा ॥” श्रीविष्णुपुराणे । श्रीयमस्य निजभटानुशासने । “हरिममरगणार्चिताङ्घ्रिपद्मं प्रणमति यः परमार्थतो हि मर्त्यः । तमपगतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥” ब्रह्मवैवर्त्ते । “शरणागतरक्षणोद्यतं हरिमीशं प्रणमन्ति ये नराः । न पतन्ति भवाम्बुधौ स्फुटं पतितानुद्धरति स्म तानसौ ॥” अष्टमस्कन्धे च वलिवाक्ये । “अहो प्रणामाय कृतः समुद्यमः प्रपन्नभक्तार्थविधौ समाहितः । यल्लोकपालैस्त्वदनुग्रहोऽमरै- रलब्धपूर्व्वापसदेऽसुरेऽर्पितः ॥” अतएव नारायणव्यूहस्तवे । “अहो भाग्यमहो भाग्यमहो भाग्यं नृणा- मिदम् । येषां हरिपदाब्जाग्रे शिरो न्यस्तं यथा तथा ॥” किञ्च नारसिंहे श्रीयमोक्तौ । “तस्य वै नारसिंहस्य विष्णोरमिततेजसः । प्रणामं ये प्रकुर्व्वन्ति तेषामपि नमो नमः ॥” भविष्योत्तरे च जलधेनुप्रसङ्गे । “विष्णोर्देवजगद्धातुर्जनार्द्दनजगत्पतेः । प्रणामं ये प्रकुर्व्वन्ति तेषामपि नमो नमः ॥” इत्यादि ॥ * ॥
अथ प्रणामनित्यता । बृहन्नारदीये तु वृको- पाख्यानारम्भे । “सकृद्बा न नमेद्यस्तु विष्णवे शर्म्मकारिणे । शवोपमं विजानीयात् कदाचिदपि नालपेत् ॥” किञ्च पाद्मे । वैशाखमाहात्म्ये यमब्रा ह्मण- संवादे । “पश्यन्तो भगवद्द्वारं नामशस्त्रपरिच्छदम् । अकृत्वा तत्प्रणामादि यान्ति ते नरकौकसः ॥” अथ नमस्कारनिषिद्धानि । विष्णुस्मृतौ । “जन्मप्रभृति यत्किञ्चित् पुमान् वे धर्म्ममाचरेत् । सर्व्वं तन्निष्फलं याति एकहस्ताभिवादनात् ॥” वाराहे । “वस्त्रप्रावृतदेहस्तु यो नरः प्रणमेत माम् । श्वित्री स जायते मूर्खः सप्तजन्मनि भामिनि ! ॥” किञ्चान्यत्र । “अग्रे पृष्ठे धामभागे समीपे गर्भमन्दिरे । जपहोमनमस्कारान् न कुर्य्यात् केशवालये ॥” अपि च । “सकृद्भूमौ निपतितो न शक्तः प्रणमेन्मुहुः । उत्थायोत्थाय कर्त्तव्यं दण्डवत् प्रणिपातनम् ॥ ततः प्रदक्षिणां कुर्य्यात् भक्त्या भगवतो हरेः । नामानि कीर्त्तयन् शक्तौ ताञ्च साष्टाङ्गवन्द- नाम् ॥” इति हरिभक्तिविलासे ८ विलास ॥ * ॥
अन्यत् नमस्कारशब्दे प्रणामशब्दे च द्रष्टव्यम् ॥ (विषविशेषः । यथा, ऋग्वेदे । ७ । ५१ । २ । “यद्विजामन् परुषि वन्दनं भुवत् ॥” असुरः । रक्षोविशेषः । इति ऋग्भाष्ये सायणः । ७ । २१ । ५ ॥)