संस्कृत-शब्दकोशः

वन्दारु वन्दिग्राह

वन्दि

वाचस्पत्यम्

वन्दि(न्दी) ||‍ स्त्री वदि—इन् वा ङीप् । १ काराबद्धमनुष्यादौ (कएदी) शब्दर० २ बन्दने ३ स्तुतौ च । ४ सोपानके उणा० ।


शब्दकल्पद्रुमः

व(ब)न्दिः || स्त्री (वन्दते स्तौति नृपादिकं स्वमु- क्त्यर्थमिति । वदि + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।)
आकृष्टमनुष्यगवादिः । कयेदी इति भाषा । तत्पर्य्यायः । प्रग्रहः २ उपग्रहः ३ वन्दी ४ । इत्यमरभरतौ ॥ वन्दिका ५ । इति शब्दरत्नावली ॥ सोपानकः । इत्यु- णादिकोषः ॥ (म्लहः । यथा, भागवते । ६ । १ । २२ । “वन्द्यक्षैः कैतवैश्चौर्य्यैर्गर्हितां वृत्तिमास्थितः ॥” पुं, स्तुतिपाठकः । यथा, हरिवंशे । ११२ । ५० । “सूतमागधवन्दीनामेकैकस्य सहस्रिकम् ॥”)



Correction: