वाचस्पत्यम्
वन्दिग्राह || पु० वन्दिमिव—गृह्णाति ग्रह—ण । बलावष्टम्भेन घातके (डाकाइत) मिता० । “वन्दिग्राहांस्तथा वाजि- कुञ्जराणां च हारिणः” मनुः ।
शब्दकल्पद्रुमः
व(ब)न्दिग्राहः || पुं, (वन्दिमिव गृहस्थं गृह्णातीति । ग्रह + णः ।)
अग्न्यायुधदेवतागारभेदकः । (डाकाइत इति भाषा ॥)
यथा, —
“वन्दिग्राहांस्तथा वाजिकुञ्जराणाञ्च हारिणः । असह्यघातिनश्चैव शूलानारोपयेन्नरान् ॥ वन्दिग्राहादीन् बलावष्टम्भेन घातकांश्च नरान् शूलानारोपयेत् । अयञ्च वधप्रकारविशेषो- पदेशः । “अग्न्यागारायुधागारदेवतागारभेदकान् । हस्त्यश्वरथहर्त्तॄंश्च हन्यादेवाविचारयन् ॥” इति मनुस्मरणात् । इति मिताक्षराव्यवहार- काण्डे दण्डप्रकरणम् ॥