वाचस्पत्यम्
वन्दी is an alternate of वन्दि. वन्दि(न्दी) || स्त्री वदि—इन् वा ङीप् । १ काराबद्धमनुष्यादौ (कएदी) शब्दर० २ बन्दने ३ स्तुतौ च । ४ सोपानके उणा० ।
शब्दकल्पद्रुमः
व(व)न्दी || स्त्री (वन्दि + “कृदिकारादक्तिनः ।” इति ङीष् ।)
वन्दिः । इत्यमरटीकायां भरतः ॥ (यथा, कुमारे । २ । ५२ । “गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् । प्रत्यानेष्यति शत्रुभ्यो वन्दीमिव जयश्रियम् ॥”)