वाचस्पत्यम्
वन्य || न० वने भवः यत् । १ त्वचे (दारचिनि) राजनि० । २ वनशूरणे ३ वाराहीकन्दे ४ देवनले पु० राजनि० । ५ वन- जातमात्रे त्रि० । ६ मुद्गपर्ण्यां ७ गोपालकर्कट्यां ८ गु- ञ्जायां ९ मिश्रेयायां १० भद्रमुस्तायां ११ नन्धपत्रायां स्त्री राजनि० । वनानामरण्यानां जलानां वा समूहः यत् । १३ जलसमूहे १४ वनसमूहे च स्त्री मेदि० ।
शब्दकल्पद्रुमः
वन्यं || क्ली (वने भवम् । वन + यत् ।)
त्वचम् । इति राजनिर्घण्टः ॥ (कुटन्नटम् । तत्पर्य्यायो यथा, —
“कुटन्नटं परं वन्यं मुस्ताभञ्च परीलवम् ॥” इति वैद्यकरत्नमालायाम् ॥)
शब्दकल्पद्रुमः
वन्यः || त्रि (वने भवः । वन् + यत् ।)
वनोद्भूतः । इति मेदिनी । ये, ५४ ॥ (यथा, रघुः । १ । ४५ । “हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखि- बाम् ॥”)
शब्दकल्पद्रुमः
वन्यः || पुं, (वन + यत् ।)
वनशूरणः । वाराही- कन्दः । देवनलः । इति राजनिर्घण्टः ॥ (क्षीर- विदारी । तत्पर्य्यायो यथा, —
“क्षीरी शवरपर्ण्याख्यः स्नुक्छदः कुष्ठनाशनः । वन्यो मूलकमूलाभः स्वस्कन्दः स च कञ्चुकी ॥” इति बैद्यकरत्नमालायाम् ॥)