शब्दकल्पद्रुमः
वन्या || स्त्री (वनानामरण्यानां जलानां वा संहतिः । वन् + “पाशादिभ्यो यः ।” ४ । २ । ४९ । इति यः ।)
वनसमूहः । इत्यमरः । २ । ४ । ४ ॥ जलसंहतिः । इति मेदिनी । ये, ५४ ॥ मुद्गपर्णी । (तत्पर्य्यायो यथा, रत्नमालायाम् । “मुद्गपर्णी क्षुद्रसहा कामुद्गा सिंहपर्णिका । वन्या मार्ज्जारगन्धेति सूर्पपर्ण्यावुभे च ते ॥”)
गोपालकर्कटी । गुञ्जा । मिश्रेया । भद्रमुस्ता । गन्धपत्रा । इति राजनिर्घण्टः ॥ (अश्वगन्धा । तत्पर्य्यायो यथा, —
“हयगन्धाश्वगन्धाख्या वाजिगन्धाश्वगन्धकः । वन्या तुरगगन्धा च कम्बुकाश्वावरोहकः ॥” बल्या क्वचित् दृश्यते । इति वैद्यकरत्नमाला- याम् ॥)