शब्दकल्पद्रुमः
वन्योपोदकी || स्त्री (वन्या वनोद्भूता उपोदकी ।) लताविशेषः । वनपुँ इ इति भाषा । तत्पर्य्यायः । वनजा २ वनसाह्वया ३ । अस्या गुणाः । तिक्त- त्वम् । कटुत्वम् । उष्णत्वम् । रोचनत्वञ्च । इति राजनिर्घण्टः ॥