वाचस्पत्यम्
वप || वीजवपने तन्तुवयने मुण्डने च सक० भ्वा० उभ० अनिट् यजा० । वपति ते अवाप्सीत् अवप्त उवाप ऊपतुः । ड्वित् उप्त्रिमः । पित्रादिपिण्डदाने “पिण्डनिर्वपनं चरेत्” स्मृतिः ।
शब्दकल्पद्रुमः
वप || औ ञ डु ऐ मुण्डतन्तुबीजोप्त्योः । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-सक०-अनिट् ।)
औ, वप्ता । ञ, वपति वपते । डु, उप्त्रिमम् । मुण्डो मुण्डितकरणम् । वपति मस्तकं नापितः । वपति तन्तुं तन्त्रवायः । यदि वपति कृषाणः क्षेत्रमासाद्य बीजम् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वपः || पुं, (वप् + घः ।)
केशमुण्डनम् । बीजवप- नम् । इति वपधातोर्भावेऽल्प्रत्ययेन निष्पन्नः ॥