संस्कृत-शब्दकोशः

वपुषा वपुस्

वपुष्टमा

वाचस्पत्यम्

वपुष्टमा ||‍ स्त्री अतिशयेन वपुः प्रशस्ताकृतिः तमप् षत्वम् । १ पद्मचारिण्याम् लतायाम् जटा० । २ काशीपतिकन्यायां ३ जनमेजयपत्न्यां च ।


शब्दकल्पद्रुमः

वपुष्टमा || स्त्री पद्मचारिणी । इति जटाधरः ॥ (काशीराजस्य कन्या । जनमेजयस्य पत्नी । सा तु रम्भा नामाप्सरा । जनमेजयकृताश्वमेध- काले इन्द्रेणेयमश्वप्रविष्टेन धर्षितासीदतो जनमे- जयेनेयं परित्यक्तापि पुनर्गन्धर्व्वराजविश्वावसु- वाक्येन गृतीता । एतद्विवरणन्तु हरिवंशे १८८ अध्याये द्रष्टव्यम् ॥)



Correction: