संस्कृत-शब्दकोशः

वप्तृ वप्रा

वप्र

वाचस्पत्यम्

वप्र ||‍ पुंन० उप्यतेऽत्र रन् । १ दुर्गनगरादौ परिखाया उद्धृत- मृत्तिकास्तूपे अमरः । २ क्षेत्रे ३ रेणौ ४ तटे मेदि० । ५ सीसके न० हेमच० । ६ जनके ७ प्राचीरे पु० विश्वः । ८ प्रजापतौ च पु० संक्षिप्तसा० । ९ मञ्जिष्ठायां स्त्री राजनि० ।


शब्दकल्पद्रुमः

वप्रं || क्ली (वप् + “वृधिवपिभ्यां रन् ।” उणा० २ । २७ । इति रन्)
सीसकम् । इति हेम- चन्द्रः । ४ । ४६ ॥ (तथास्य पर्य्यायान्तरम् । “सीसं वध्रञ्च वप्रञ्च योगेष्टं नागनामकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)


शब्दकल्पद्रुमः

वप्रं || क्ली पुं, (उप्यतेऽत्रेति । वप + “वृषिवपिभ्यां रन् ।” उणा० २ । २७ । इति रन् ।)
दुर्ग- नगरे परिखाया उद्धृतमृत्तिकास्तूपबद्धे यदु- परि प्राकारो निवेश्यते तत् । तथा चार्थ- शास्त्रम् । ख्यातादुद्धृतमृदा वप्रं कारयेत् तस्यो- परि प्राकारमिति । तत्पर्य्यायः । चयः २ । इत्यमरभरतौ ॥ मृत्तिकास्तूपः ३ । इति शब्द- रत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । ५०५ । “लग्नं जघने तस्याः सुविशाले कलितकरि- करक्रीडे । वप्रे सक्तं द्विपमिव शृङ्गारस्तां विभूषयति ॥”)
महावप्रो यथा, —
“महोद्यानां महावप्रां तडागशतशोभिताम् । प्राकारगृहसम्बाधामिन्द्रस्येवामरावतीम् ॥” महान् वप्रो यस्याः । “प्राकाराधारभूता कृत्रिमोच्छ्रिता भूमि- र्व्वप्रसंज्ञा ॥” इति विष्णुपुराणे ५ अंशे २३ अध्याधे ॥ * ॥
वपति बीजमत्र । क्षेत इति भाषा । तत्- पर्य्यायः । केदारः २ क्षेत्रम् ३ । इत्यमरभरतौ ॥ निष्कुटः ४ वनजम् ५ वाजिका ६ पाटीरः ७ । इति जटाधरः ॥ (यथा, बृहत्संहितायाम् । १९ । १६ । “शालीक्षुमत्यपि धरा धरणीधराभ- धाराधरोज्ज्वितपयः परिपूर्णवप्रा ॥”)
रेणुः । तटः । इति मेदिनीकरहेमचन्द्रौ ॥ (यथा, किराते । ७ । ११ । “तत् पूर्ब्बं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्त्तनं पयोभिः ॥” पर्व्वतसानुः । यथा, किराते । ५ । ३६ । “नानारत्नज्योतिषां सन्निपातै- श्छन्नेष्वन्तः सानुवप्रान्तरेषु ॥”)


शब्दकल्पद्रुमः

वप्रः || पुं, (वपति बीजमिति । वप् + रन् ।)
तातः । इति मेदिनी । रे, ८२ ॥ प्राकारः । इति विश्वः ॥ प्रजापतिः । इति संक्षिप्तसारो- णादिवृत्तिः ॥



Correction: