वाचस्पत्यम्
वम || उद्गारे भ्वा० पर० सक० सेट् । वमति अवमीत् । ट्वित् वमथुः । ज्वला० वमः वामः । वमयति वामयति उप- सृष्टस्य नित्यं ह्रस्वः । फणा० वेमतुः ववमतुः । उदित् वमित्वा वान्त्वा वान्तः ।
शब्दकल्पद्रुमः
वम || ण जु टु उद्गिरि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।)
वकारादिः । ण, वेमतुः ववमतुः । अन्ये तु तत्कार्य्यविधायक- सूत्रे फणादौ चेमं न पठन्ति वेमुश्च केचिद्रुधिर- मित्यादिसाधनाय तत्सूत्रे दन्त्यवकारादिवर्ज्जन- स्यानित्यतां स्वीकुर्व्वन्ति । केचित् पुनर्व्वर्ग्य- वकारादिधात्वन्तरमप्यस्ति इति प्रलपन्ति । ज, वामः वमः । उ, वमित्वा वान्त्वा । टु, वमथुः । उद्गिरि वान्तौ । वमति अन्नमजीर्ण- वान् । अमन्तत्वेऽपि ञौ ज्वलह्वल इत्यादिना केवलस्य ह्रस्वविकल्पनात् सोपसर्गस्य नित्यं ह्रस्वः । वमयति वामयति प्रवमयति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वमः || पुं स्त्री, वमनम् । इति वमधातोरच्प्रत्ययेन निष्पन्नम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥