शब्दकल्पद्रुमः
वयस्या || स्त्री (वयस्य + टाप् ।)
सखी । इत्यमरः । २ । ६ । १२ । (यथा, कथासरित्सागरे । १० । १४५ । “अत्यर्थं सा च दृष्ट्वा त्वां जायते मदनातुरा । तां भजस्व वयस्यां मे ततः क्षेममवाप्स्यसि ॥” इष्टका । यथा, शतपथब्राह्मणे । १० । ४ । ३ । १५ । “एकया न विंशतिर्व्वयस्यास्ता एकचत्वारिंश- द्द्वितीया चितिः ।” तथाच, वाजसनेयसंहिता- भाष्ये । १४ । ९ । “वयस्यासंज्ञका इष्टका उपदधात्येकोविंशति- मन्त्रैरित्यर्थः ॥”)