वाचस्पत्यम्
वयुन || न० वय—उनन् । १ ज्ञाने भाग० १० । ८० श्रीधरः । २ देवागारे त्रिका० । देवागारे पु० उणासू० ।
शब्दकल्पद्रुमः
वयुनं || क्ली (वीयते गम्यते प्राप्यते विषया अनने- नेति । अज गतौ + “अजियमिशीङ्भ्यश्व ।” उणा० ३ । ६१ । इति उनण् । स च कित् । अजेर्व्वीभावः ।)
ज्ञानम् । यथा, —
“हस्ताग्राह्ये रचयति विधिं पीठकोदूखलाद्यै- श्छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् ।” इति श्रीभागवते १० स्कन्धे ८ अध्यायः ॥ शिक्यभाण्डेषु अन्तर्निहितदध्यादौ वयुनं ज्ञानं यस्य सः । इति तट्टीकायां श्रीधरस्वामी ॥
शब्दकल्पद्रुमः
वयुनः || पुं, (वीयते गम्यते ऽत्रेति । अज गतौ + उनण् ।)
देवतागारम् । इत्युणादिकोषः । (एतदर्थे क्लीवलिङ्गः । इति उज्ज्वलदत्तः । ३ । ६१ ॥ विषणागर्भजातः कृशाश्वस्य पुत्त्रः । यथा, भागवते । ६ । ६ । २० । “कृशाश्वोऽर्च्चिषि भार्य्यायां धूमकेतुमजीजनत् । विषणायां वेदशिरं देवलं वयुनं मनुम् ॥”)